नश्यन्ति तत्क्षणादेव विद्वेषिग्रहदानवाः
भूतापस्मारकृत्योत्थज्वरे तन्मन्त्रमन्त्रितैः
त्रिदिनाज्ज्वरमुक्तो ऽसौ सुखं च लभते नरः
सर्वान्रोगान्पराभूय सुखी भवति तत्क्षणात्
योद्धुं गच्छेच्च यो मन्त्री शस्त्रसंघैर्ंन बाध्यते
त्रिर्जप्तेन च संस्पृष्टाः शुष्यन्त्येव न संशयः
मन्त्रं सप्तदिनं यावञ्चादाय भस्मकीलकौ
विद्वेषं मिथ आपन्नाः पलायन्ते ऽरयो ऽचिरात्
भक्ष्यादियोजितं यस्मै ददाति स तु दासवत्
गृहीत्वेशनदिस्कंस्थं करञ्जतरुमूलकम्
कृत्वा प्राणप्रतिष्टां च सिंदूराद्यैः प्रपूज्य च
ग्रहाभिचाररोगाग्निविषचौरनृपोद्भवाः
तद्गृहं धनपुत्राद्यैरेधते प्रत्यहं चिरम्
शत्रोः प्रतिकृतिं कृत्वा हृदि नाम समालिखेत्
मन्त्रान्ते प्रोञ्चरेच्छत्रोर्नाम छिन्धि च भिन्धि च
पाण्योस्तले प्रपीड्याथ त्यक्त्वा तं स्वगृहं व्रजेत्
राजिकालवणैर्मुक्तचिकुरः पितृकानने
द्विक(काक)कौशिकगृध्राणां पक्षैः श्लेष्मान्तकाक्षजैः
एवं सप्तदिनं कुर्वन्मारयेदुद्धतं रिपुन्
ततो वेताल उत्थाय वदेद्भावि शुभाशुभम्
भास्मांबुमन्त्रितं रात्रौ सहस्रावृत्तिकं पुनः
यासु कासु च स्थूलासु लघुष्वपि विशेषतः
अष्टम्यां वा चतुर्दश्यां कुजे वा रविवासरे
कुर्याद्रम्यां विशुद्धात्मा सर्वलक्षणलक्षिताम्
संस्थाप्यावाहयेत्पश्चान्मूलमन्त्रेण मन्त्रवित्
रक्तचन्दनपुष्पैश्च सिंदूराद्यैः समर्चयेत्
अपूपमोदनं शाकमोदकान्वटकादिकम्
अखण्डितान्यहिलतादलानि सप्तविंशतिम्
एवं संपूज्य मन्त्रज्ञो जपेद्दशशन्त मनुम्
निजेप्सितं निवेद्याथ विधिवद्विसृजेत्ततः