कन्यार्थी विमलापाणिग्रहणासक्तमानसः
ईप्सितां लभते कन्यां शीग्रमेव न संशयः
ध्यात्वा च विधिवन्नित्यं जपेन्मासत्रयं मनुम्
सर्वासामपि विद्यानां तत्त्वज्ञो जायते नरः
ध्यायंल्लक्षं जपेन्मन्त्रं मुच्यते महतो भयात्
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम्
स्वाचारनियतो दान्तो गृहस्थो विजितेन्द्रियः
स सर्वान्पुण्यपापौधान्दग्ध्वा निर्मलमानसः
सकामो वाञ्छितान् लब्ध्वा भुक्त्वा भोगान् मनोगतान्
निद्राचन्द्रान्विता पश्चाद्भरताय हृदन्तिमः
बकः सेंदुश्च शत्रुध्नपरं ङेतं हृदन्तिमः
सप्ताक्षरो ऽयं शत्रुध्नमन्त्रः सर्वेष्टसिद्धिदः
यान्समाराध्य विप्रेन्द्र तत्तुल्याचरणा नराः
हसफआग्निनिशाधीशाःद्वितीयं बीजमीरितम्
वियद्भृग्वग्निमन्विन्दुयुक्तं स्याञ्च चतुर्थकम्
मन्विन्द्वाढ्यौ हसौ षष्टं ङेंतः स्याद्धनुमांस्ततः
रामचन्द्रो मुनिश्चास्य जगतीछन्द ईरितम्
षड्बीजैश्च षडङ्गानि शिरोभाले दृशोर्मुखे
ध्वजे जानुद्वये पादद्वये वर्णान्क्रमान्न्यसेत्
नाभावूर्वोर्जङ्घयोश्च पादयोर्विन्यसेत्क्रमात्
उद्यत्कोट्यर्कसंकाशं जगत्प्रक्षोभकारकम्
वित्रासयन्तं नादेन राक्षसान्मारुतिं भजेत्
दशांशं जुहुयाद्बीहीन्पयोदध्याज्यमिश्रितान्
आवाह्य तत्र संपूज्य पाद्यादिभिरुपायनैः
रामभक्तो महातेजाः कपिराजो महाबलः
दक्षिणाशाभास्करश्च सर्वविघ्नविनाशकः
सुग्रीवमङ्गद नीलं जांबवन्तं नलं तथा
वज्राद्यानपि संपूज्य सिद्धश्चैवं मनुर्भवेत्
यो नरस्तस्य नश्यन्ति राजशत्रूत्थभीतयः
द्वाविंशतिब्रह्मचारि विप्रान्संभोजयेच्छुचीन्