संरक्षिता विष्णुसुदर्शनेन दैत्यान्तकेन स्वजनानुकम्पिना
स वह्निरदितिं मुक्त्वा कथं तानदहत्क्षणात्
परोपदेशनिरताः सज्जना हि मुनीश्वराः
हरिध्यानपरान्साधून्कः समर्थः प्रबाधितुम्
देवाः सिद्धा मुनीश्वाश्च नित्यं तिष्टन्ति सत्तमाः
हरिनामपराणां च किमु ध्यानरतात्मनाम्
यत्र तिष्टति तत्रैव लक्ष्मीः सर्वाश्च देवताः
राजा वा तस्करो वापि व्याधयश्च न सन्ति हि
डाकिन्यो राक्षसाश्चैव न बाधन्ते ऽच्युतार्चकम्
यत्र तिष्टति तत्रैव सर्वतीर्थानि देवताः
तत्रैव सर्वश्रेयांसि तत्तीर्थं तत्तपोवनम्
स्तोत्रैर्वाप्यर्हणाभिर्वा किमु ध्यानेन कथ्यते
सादितिर्नैव दग्धाभूद्विष्णुचक्राभिर क्षिता
प्रादुरासीत्समीपे ऽस्याः शङ्खचक्रगदाधरः
स्पृशन्करेण पुण्येन प्राह कश्यपवल्लभाम्
चिरं श्रान्तासि भद्रं ते भविशष्यति न संशयः
मा भैर्भद्रे महाभागे ध्रुवं श्रेयो भविष्यति
तुष्टाव प्रणिपत्यैनं सर्वलोकसुखावहम्
सत्त्वादिगुणभेदेन लोकव्यापारकारण
सर्वैकरुपरुपाय निर्गुणाय गुणात्मने
सद्भक्तजनवात्सल्यशालिने मङ्गलात्मने
तमादिपुरुषं देवं नमामि ह्यर्थसिद्धये
तं नमामि जगद्धेतुं समायं चाप्यमायिनम्
जगद्रूपं जगद्धेतुं तं वन्दें सर्ववन्दितम्
अवापुः परमां सिद्धिं तं वन्दे कमलाधवम्
अत्यासन्नं च भक्तानां तं वन्दे भक्तसंगिनम्
करोति ह्यात्मनः सङ्गं तं देवं सङ्गवर्जितम्
नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम्
प्रात्पवान्परमं धाम तं वन्दे लोकसाक्षिणम्
इति लोकस्य नेता यस्तं नमामि जगद्गुरुम्