साकल्यं रामपूजाया यदीच्छेन्नियतं नरः
श्रीरामचन्द्रभेदास्तु बहवः संति सिद्धिदाः
अष्टोत्तरसहस्रं वा शतं वा सुसमाहितैः
अजप्त्वा लक्ष्मणमनुं राममन्त्रान् जपन्ति ये
यो जपेल्लक्ष्मणमनुं नित्यमेकान्तमास्थितः
जयप्रधानो मन्त्रो ऽयं राज्यप्राप्त्यैकसाधनम्
सो ऽचिरान्नष्टराज्यं स्वं प्राप्नोत्येव न संशयः
पञ्चायुतं मनुं जप्त्वा नष्टराज्यमवाप्नुयात्
अयुतं प्रजपेन्मन्त्रं निगडान्मुच्यते ध्रुवम्
ध्यात्वा लक्षं जपन्मन्त्रमल्पमृत्युं जयेद्धुवम्
दुर्जयं वापि वेगेन जयेद्रिपुकुलं महत्
सहस्रं प्रजपेन्मन्त्रं पुरुहूतादिकान् जयेत्
प्रजपल्लङ्क्षमेकान्ते महारोगात्प्रमुच्यते
अष्टोत्तरशतैः पुष्पैर्निश्छेद्रैः शातपत्रकैः
निवेद्य प्रजपेन्मन्त्रं कुष्टरोगात्प्रनुच्यते
क्षयरोगात्प्रमुच्येत सत्यं सत्यं न संशयः
त्रिसंध्यं वा पिबेन्नित्यं मुच्यते सर्वरोगतः
विषादिदोषसंस्पर्शो न भवेत्तु कदाचन
मुखनेत्रादिसंभूताञ्जयेद्द्व्रोगांश्च दारुणान्
लक्ष्मणप्रतिमां कृत्वा दद्याद्भक्त्या विधानतः
कन्यार्थी विमलापाणिग्रहणासक्तमानसः
ईप्सितां लभते कन्यां शीग्रमेव न संशयः
ध्यात्वा च विधिवन्नित्यं जपेन्मासत्रयं मनुम्
सर्वासामपि विद्यानां तत्त्वज्ञो जायते नरः
ध्यायंल्लक्षं जपेन्मन्त्रं मुच्यते महतो भयात्
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम्
स्वाचारनियतो दान्तो गृहस्थो विजितेन्द्रियः
स सर्वान्पुण्यपापौधान्दग्ध्वा निर्मलमानसः
सकामो वाञ्छितान् लब्ध्वा भुक्त्वा भोगान् मनोगतान्
निद्राचन्द्रान्विता पश्चाद्भरताय हृदन्तिमः