उत्तमश्लोकधुर्याय स्वं भृगुः कामिकान्वितः
ऋषिः शुक्रस्तथानुष्टुप्छन्दो रामो ऽस्य देवता
लक्षं जपो दशांशेन जुहुयात्पायसैः सुधीः
आदौ दाशरथायान्ते विद्महे पदमुच्चरेत्
तन्नो रामः प्रोचो वर्णो दयादिति च संवदेत्
पद्मासीतापदं ङेतं ठद्वयान्तः षडक्षरः
सीता भगवती प्रोक्ता श्रीं बीजं वह्निसुन्दरी
ततो ध्यायन्महादेवीं सीतां त्रैलोक्यपूजिताम्
सद्रत्नभूषणस्फूर्जद्दिव्यदेहां शुभात्मिकाम्
पश्यन्तीं राघवं पुण्यं शय्यार्ध्यां षड्गुणेश्वरीम्
जुहुयात्कमलैः फुल्लैः पीठे पूर्वोदिते यजेत्
संपूज्य दक्षिणे राममभ्यर्च्याग्रे ऽनिलात्मजम्
पत्रेषु मन्त्रिमुख्यंश्च बाह्ये लोकेश्वरान्पुनः
जातीपुष्पैश्चन्दनाक्तै राजवश्याय होमयेत्
बिल्वपत्रैः श्रियः प्राप्त्यै दूर्वाभीरोराशान्तये
धनं धान्यं च मोक्षं च सीताराधनतो लभेत्
अगस्त्यो ऽस्य मुनिश्छन्दो गायत्री देवता पुनः
षड्दीर्घाढ्येन बीजेन षडङ्गानि समाचरेत्
धनुर्बाणकरं रामसेवासंसक्तमानसम्
मध्वाक्तैः पायसैर्हुत्वा रामपीठे प्रपूजयेत
साकल्यं रामपूजाया यदीच्छेन्नियतं नरः
श्रीरामचन्द्रभेदास्तु बहवः संति सिद्धिदाः
अष्टोत्तरसहस्रं वा शतं वा सुसमाहितैः
अजप्त्वा लक्ष्मणमनुं राममन्त्रान् जपन्ति ये
यो जपेल्लक्ष्मणमनुं नित्यमेकान्तमास्थितः
जयप्रधानो मन्त्रो ऽयं राज्यप्राप्त्यैकसाधनम्
सो ऽचिरान्नष्टराज्यं स्वं प्राप्नोत्येव न संशयः
पञ्चायुतं मनुं जप्त्वा नष्टराज्यमवाप्नुयात्
अयुतं प्रजपेन्मन्त्रं निगडान्मुच्यते ध्रुवम्
ध्यात्वा लक्षं जपन्मन्त्रमल्पमृत्युं जयेद्धुवम्