ध्यानार्चनादिकं चास्य पूर्ववत्समुपाचरेत्
ध्यात्वा रामं पीतवर्णं जपेल्लक्षं समाहितः
तारो माया रमाद्वन्द्वं दाशरथाय हृञ्च वै
त्रैलोक्यान्ते तु नाथाय हृदन्तो वसुवर्णवान्
आञ्जनेयपदान्ते तु गुरवे हृदयान्तिमः
ङेतं रामपद पश्चाद्धृदयं पञ्चवणवत्
रामान्ते चन्द्रभद्रौ च ङेंतौ पावकवल्लभा
वह्निः शेषान्वितश्चैव चन्द्रभूषितमस्तकः
ब्रह्मा मुनिः स्याद्गायत्री छन्दो रामो ऽस्य देवता
सरयूतीरमन्दारवेदिकापङ्कजासने
वामोरुन्यस्तं तद्धस्तं सीतालक्ष्मणसंयुतम्
शुद्धस्फटिकसंकाशं केवलं मोक्षकाङ्क्षया
सर्व्वं षडर्णवञ्चास्य होमनित्यार्चनादिकम्
एकाक्षरोक्त वत्सर्वं मुनिध्यानार्चनादिकम्
त्र्यक्षरो मन्त्रराजः स्यात्षड्विधः सकलेष्टदः
एकार्णोक्तवदेतेषां मुनिध्यानार्चनादिकम्
अष्टार्णो ऽयं महामन्त्रो मुन्याद्यर्चा षडर्णवत्
शिवोमाराममन्त्रो ऽयमष्टार्णः सर्वसिद्धिदः
शिवोमारामचन्द्रो ऽत्र देवता परिकीर्तितः
षडङ्गानि विधायाथ ध्यायेद्धृदि सुरार्चितम्
भस्मोद्धूलितसर्वाङ्गं कपर्द्दिनमुपास्महे
पाशाङ्कुशधनुर्बाणधरां ध्यायेत्रिलोचनाम्
बिल्पपत्रैः फलैः पुष्पैस्तिलैर्वा पङ्कजैर्हुनेत्
तारो माया च भरताग्रजराममनोभवः
अङ्गिराश्च मुनिश्छन्दो गायत्री देवता पुनः
चन्द्रैकमुनिभूनेत्रैर्मन्त्रार्णैरङ्गकल्पनम्
प्रणवो हृदयं सीतापते रामश्च ङेंतिमः
अगस्त्यो ऽस्य मुनिश्छन्दो बृहती देवता पुनः
रामाब्धिवह्निवेदाक्षिवर्णैः पञ्चाङ्गकल्पना
तारो हृञ्चैव ब्रह्मण्यसेव्याय पदमीरयेत्