श्रीपूर्वं जयपूर्वं च तद्द्विधा रामनाम च
छन्दस्तु देवता प्रोक्तो रामः पापौघनाशनःऋ
ध्यानार्चनादिकं सव ह्यस्य कुर्याद्दशार्णवत्
पुरुषाय हृदन्तो ऽयं मनुरष्टादशाक्षरः
तारो बीजं नमः शक्तिश्चन्द्राक्ष्यब्ध्यग्निषड्भुजैः
निःशाणभेरीपटहशङ्खतुर्यादिनिःस्वनैः
चन्दनागरुकस्तूरीकर्पूरादिसुवासिते
देवगन्धर्वनारीभिर्गायन्तीभिरलकृते
सौमित्रिसीतासहितं जटामुकुटशोभितम्
हत्वा रावणमायान्तं कृतत्रैलोक्यरक्षणम्
घृताक्तैः पायसैर्हुत्वा यजनं पूर्ववञ्चरेत्
रामाय हनयुग्मान्ते वर्मास्त्राग्निप्रियान्तिमः
विश्वामित्रो मुनिश्चास्यानुष्टुप्छन्द उदाहृतम्
मन्त्रोत्थितैः क्रमाद्वर्णैस्ततो ध्यायेञ्च पूर्ववत्
तारः स्वबीजं कमला रामभद्रेति संपठेत्
दशास्यान्तकशब्दान्ते मां रक्ष देहि संपठेत्
बीजैर्वियुक्तो द्वात्रिंशदर्णो ऽयं फलदायकः
देवता रामभद्रो ऽत्र बीजं स्वं शक्तिरिन्दिरा
पञ्चाङ्गानि च विन्यस्य मन्त्रवर्णान्क्रमान्न्यसेत्
आस्ये दोःसंधियुगले स्तनहृन्नाभिषु क्रमात्
ध्यानार्चनादिकं चास्य पूर्ववत्समुपाचरेत्
ध्यात्वा रामं पीतवर्णं जपेल्लक्षं समाहितः
तारो माया रमाद्वन्द्वं दाशरथाय हृञ्च वै
त्रैलोक्यान्ते तु नाथाय हृदन्तो वसुवर्णवान्
आञ्जनेयपदान्ते तु गुरवे हृदयान्तिमः
ङेतं रामपद पश्चाद्धृदयं पञ्चवणवत्
रामान्ते चन्द्रभद्रौ च ङेंतौ पावकवल्लभा
वह्निः शेषान्वितश्चैव चन्द्रभूषितमस्तकः
ब्रह्मा मुनिः स्याद्गायत्री छन्दो रामो ऽस्य देवता
सरयूतीरमन्दारवेदिकापङ्कजासने