बीजं रामाय ठद्वन्द्वं मन्त्रो ऽयं रसवर्णकः
सुदर्शनमहाशब्दाच्चक्रराजेश्वरेति च
छिन्धिद्वयं भिन्धियुग्मं विदारययुगं ततः
त्रासयद्वितयं वर्मास्त्राग्निजायान्तिमो मनुः
तारो हृद्भगवान् ङेंतो ङेंतो हि रघुनन्दनः
वरदानायामितान्ते नुतेजसेपदमीरयेत्
सप्तचत्वारिंशदर्णो मालामन्त्रो ऽयमीरितः
श्रीरामो देवता बीजं ध्रुवः शक्तिश्च ठद्वयम्
ध्यानपूजादिकं सर्वमस्य पूर्ववदाचरेत्
स्वकामसत्यवाग्लक्ष्मीताराढ्यः पञ्चवर्णकः
ब्रह्मा संमोहनः शक्तिर्दक्षिणामूर्तिसंज्ञकः
अथवा कामबीजादेर्विश्वामित्रो मुनिः स्मृतः
बीजशक्तिराधमान्त्यं मन्त्रार्णैः स्यात्षडङ्गकम्
ध्यायेत्कल्पतरोर्मूले सुवर्णमयमण्डपे
पद्मे वसुदलेदेवमिन्द्रनीलसमप्रभम्
वामोरुन्यस्ततद्धस्तसीतालक्ष्मणसेवितम्
यद्वा स्मारादिमन्त्राणां जयाभं च हरिं स्मरेत्
रामश्च चन्द्रभ द्रान्तो ङेनमोन्तो ध्रुवादिकः
एतेषां यजनं सर्वं कुर्यान्मन्त्री षडर्णवत्
दशार्णो ऽयं महामन्त्रो विशिष्टो ऽस्य मुनिः स्वराट्
स्वाहा शक्तिश्च कामेन कुर्यादङ्गानि षट् क्रमात्
नाभ्यङ्घ्रिजानुपादेषु दशार्णान्विन्यसेन्मनोः
मन्दारपुष्पैराबद्धविताने तोरणान्विते
रक्षोभिर्हरिभिर्देवैः सुविमानगतैः शुभैः
सीतालङ्कृतवामाङ्गं लक्ष्मणेनोपशोभितम्
एवं ध्यात्वा जपेन्मन्त्री वर्णलक्षं समाहितः
रामो ङेंन्तो धनुष्पाणिर्ङैतोंऽते वह्निसुंदरी
छन्दस्तु देवता प्रोक्तो रामो राक्षसमर्दनः
वर्णन्यासं तथा ध्यानं पुरश्चर्यार्चनादिकमन्
तारो नमो भगवते रामान्ते चन्द्रभद्रकौ