षट्कोणेषु दलार्काब्जान्यावेष्टवृत्तयुग्मतः
बहिस्तु मातृकां चैव मन्त्रं प्राणनिधयनम
मूर्ध्नि वा धारयेन्मन्त्री सर्वपापैः प्रमुच्यते
वश्याकर्षणविद्वेषद्रावणोच्चाटनादिकम्
दूर्वोत्था लेखनी वश्ये तथाकृष्टौ करञ्जजा
शान्तिपुष्टष्ट्यायुषां सिद्धयै सर्वापच्छमनाय च
खरचर्मणि विद्वेषे ध्वजे तूञ्चाटनाय च
पीतवस्रं लिखित्वा तु साधयेत्साधकोत्तमः
चिताङ्गारादिना चैव ताडनोच्चाटनादिकम्
लिखित्वैवं यन्त्रराजं गन्धपुष्पादिभिर्यजेत्
बीजं रामाय ठद्वन्द्वं मन्त्रो ऽयं रसवर्णकः
सुदर्शनमहाशब्दाच्चक्रराजेश्वरेति च
छिन्धिद्वयं भिन्धियुग्मं विदारययुगं ततः
त्रासयद्वितयं वर्मास्त्राग्निजायान्तिमो मनुः
तारो हृद्भगवान् ङेंतो ङेंतो हि रघुनन्दनः
वरदानायामितान्ते नुतेजसेपदमीरयेत्
सप्तचत्वारिंशदर्णो मालामन्त्रो ऽयमीरितः
श्रीरामो देवता बीजं ध्रुवः शक्तिश्च ठद्वयम्
ध्यानपूजादिकं सर्वमस्य पूर्ववदाचरेत्
स्वकामसत्यवाग्लक्ष्मीताराढ्यः पञ्चवर्णकः
ब्रह्मा संमोहनः शक्तिर्दक्षिणामूर्तिसंज्ञकः
अथवा कामबीजादेर्विश्वामित्रो मुनिः स्मृतः
बीजशक्तिराधमान्त्यं मन्त्रार्णैः स्यात्षडङ्गकम्
ध्यायेत्कल्पतरोर्मूले सुवर्णमयमण्डपे
पद्मे वसुदलेदेवमिन्द्रनीलसमप्रभम्
वामोरुन्यस्ततद्धस्तसीतालक्ष्मणसेवितम्
यद्वा स्मारादिमन्त्राणां जयाभं च हरिं स्मरेत्
रामश्च चन्द्रभ द्रान्तो ङेनमोन्तो ध्रुवादिकः
एतेषां यजनं सर्वं कुर्यान्मन्त्री षडर्णवत्
दशार्णो ऽयं महामन्त्रो विशिष्टो ऽस्य मुनिः स्वराट्