कोटिकोटिसहस्राणि ह्युपपापानि यानि वै
ब्रह्मा मुनिः स्याद्गायत्री छन्दो रामश्च देवता
षड्दीर्घभाजा बीजेन षडङ्गानि समाचरेत्
मन्त्रवर्णान्क्रमान्न्यस्य केशवादीन्प्रविन्यसेत्
कालांभोधरकान्तं च वीरा सनसमास्थितम्
सरोरुहकरां सीतां विद्युदाभां च पार्श्वगाम्
ध्यात्वैवं प्रजपेद्वर्णलक्षं मन्त्री दशांशतः
पूजयेद्वैष्णवे पीठे विमलादिसमन्विते
सीतां वामे समासीनां तन्मन्त्रेण प्रपूजयेत्
अग्रेः शार्ङ्गं च सम्पूज्य शरान्पार्श्वद्वयेर्ऽचयेत्
हनुमन्तं च सुग्रीवं भरतं सबिभीषणम्
वाचयन्तं हनूमन्तग्रतो धृतपुस्तकम्
धृतातपत्रं हस्ताभ्यां लक्ष्मणं पृष्टतोर्ऽचयेत्
सुराष्ट्रं राष्ट्रपालं च अकोपं धर्मपालकम्
एवं रामं समाराध्य जीवन्मुक्तः प्रजायते
राजवश्याय कमलैर्धनधान्यादिसिद्धये
आज्याक्तैर्नीलकमलैर्वशयेदखिलं जगत्
रक्तोत्पलानां होमेन धनं प्राप्नोति वाञ्छितम्
तज्जप्तांभः पिबेत्प्रातर्वत्सरात्कविराड् भवेत्
रोगोक्तौषधहोमेन तद्रोगान्मुच्यते क्षणाम्
पायसेनाज्ययुक्तेन हुत्वा विद्यानिधिर्भवेत्
जपेल्लक्षं च जुहुयाद्विल्वपुष्पैर्दशांशतः
उपोष्य गङ्गातीरान्ते स्थित्वा लक्षं जपेन्नरः
मधुरत्रयसंयुक्तैरादज्यश्रियमवाप्नुयात्
लक्षं जप्त्वा दशांशेन पायसैर्जुहुयाद्वसौ
अन्ये ऽपि बहवः संति प्रयोगामन्त्रराजके
षट्कोणं वसुपत्रं च तद्बाह्यार्कदलं लिखेत्
अष्टपत्रे तथाष्टार्णांल्लिखेत्प्रणवगर्भितान्
सुदर्शनावृतं बाह्ये दिक्षु युग्मावृतं तथा
भूम्या च विलसत्कोणं यन्त्रराजमिदं स्मृतम्