चन्द्रसूर्योपरागे तु पात्रे रुक्ममये क्षिपेत्
स्पर्शाद्विमोक्षपर्यन्तं प्रजपेन्मन्त्रमादरात्
ज्योतिष्मतीलताबीजं दिनेष्वेकैकवर्द्धितम्
सरस्वत्यवतारो ऽसौ सत्यं स्याद्भुवि मानवः
सर्ववेदागमादीनां व्याख्याता ज्ञानवान् भवेत्
येषामाराधनान्मर्त्यास्तरन्ति भवसागरम्
गाणपत्येषु सौरेषु शाक्तशैवेष्वभीष्टदम्
गाणपत्यादिमन्त्रेभ्यः कोटिकोटिगुणाधिकाः
रामाय हृदयान्तो ऽयं महाघौधविनाशनः
ब्रह्महत्यासहस्राणि ज्ञाताज्ञातकृतानि च
कोटिकोटिसहस्राणि ह्युपपापानि यानि वै
ब्रह्मा मुनिः स्याद्गायत्री छन्दो रामश्च देवता
षड्दीर्घभाजा बीजेन षडङ्गानि समाचरेत्
मन्त्रवर्णान्क्रमान्न्यस्य केशवादीन्प्रविन्यसेत्
कालांभोधरकान्तं च वीरा सनसमास्थितम्
सरोरुहकरां सीतां विद्युदाभां च पार्श्वगाम्
ध्यात्वैवं प्रजपेद्वर्णलक्षं मन्त्री दशांशतः
पूजयेद्वैष्णवे पीठे विमलादिसमन्विते
सीतां वामे समासीनां तन्मन्त्रेण प्रपूजयेत्
अग्रेः शार्ङ्गं च सम्पूज्य शरान्पार्श्वद्वयेर्ऽचयेत्
हनुमन्तं च सुग्रीवं भरतं सबिभीषणम्
वाचयन्तं हनूमन्तग्रतो धृतपुस्तकम्
धृतातपत्रं हस्ताभ्यां लक्ष्मणं पृष्टतोर्ऽचयेत्
सुराष्ट्रं राष्ट्रपालं च अकोपं धर्मपालकम्
एवं रामं समाराध्य जीवन्मुक्तः प्रजायते
राजवश्याय कमलैर्धनधान्यादिसिद्धये
आज्याक्तैर्नीलकमलैर्वशयेदखिलं जगत्
रक्तोत्पलानां होमेन धनं प्राप्नोति वाञ्छितम्
तज्जप्तांभः पिबेत्प्रातर्वत्सरात्कविराड् भवेत्
रोगोक्तौषधहोमेन तद्रोगान्मुच्यते क्षणाम्