अन्नाज्यैर्जुहुयान्नित्यमष्टाविंशतिसंख्यया
अपूपैः षड्रसोपेतैर्हुनेद्वसुसहस्रकम्
जुहुयादयुतं मन्त्री दध्यन्नं च सितान्वितम्
पद्माक्षरैर्युतं बिल्वान्तिकस्थो जुहुयान्नरः
जुहुयात्पायसैर्लक्षं वाचस्पतिसमो भवेत्
तत्काष्टैरेधिते वह्नौ श्रेष्ठं पुत्रमवाप्नुयात्
विलसत्केसरं मन्त्राक्षरद्वन्द्वाष्टपत्रकम्
तद्बहिर्मातृकावर्णैर्यन्त्रं सम्पत्प्रदं नृणाम्
जुहुयादयुतं मन्त्री सर्वत्र विजयी भवेत्
लभेदकण्टकं राज्यं सर्वलक्षणसंयुतम्
अयुतं साध्यनामाढ्यं स वश्यो जायते ध्रुवम्
तावज्जप्त्वा च सप्ताहान्महारोगात्प्रमुच्यते
सर्ववार्गीश्वरेत्यन्ते प्रवदेदीश्वरेत्यथ
बोधयद्वितवान्तो ऽयं मन्त्रस्तारादिरीरितः
देवता स्याद्धयग्रीवो वागैश्वर्यप्रदो विभुः
तुषाराद्रिसमच्छायं तुलसीदामभूषितम्
ध्यात्वैवं प्रजपेन्मन्त्रमयुतं तद्दशांशतः
पूजयेद्वेष्णवे पीठे मूर्तिं संकल्प्य मूलतः
सनन्दनं च सनकं श्रियं च पृथिवीं तथा
निरुक्तं ज्योतिषं पश्चाद्यजेद्व्याकरणं ततः
ततो ऽष्टदलमूले तु मातरो ऽष्टौ समर्चयेत्
दलाग्रेष्यर्चयेत्पश्चात्साधकश्चाष्टभैरवान्
बटुकं कालदमनं दन्तुरं विकटं तथा
शङ्खं चक्रं गदां पद्मं नन्दकं शार्ङ्गमेव च
वज्राद्यांस्तद्बहिश्चेष्ट्वाद्वारेषु च ततः क्रमात्
समस्तप्रकटाद्याश्च योगिन्यस्तद्बहिर्भवेत्
तद्बाह्ये पर्वतानष्टौ नक्षत्राणि च तद्बहिः
वागीश्वरसमो वाचि धनैर्धनपतिर्भवेत्
अष्टोत्तरसहस्रं तु शुद्धं वार्यभिमन्त्रितम्
जन्ममूको ऽपि स नरो वाक्सिद्धिं लभते ध्रुवम्