कोणपत्रेषु शान्तिं च श्रियं सरस्वतीं रतिम्
शङ्खं चक्रं गदां शार्ङ्गं दलेष्वष्टसु पूजयेत्
तदस्त्राणि च सम्पूज्य गजानष्टौ समर्चयेत्
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः
ताम्रकर्णी शुभ्रदन्ती चाङ्गना ह्यञ्जना वती
श्रीकामः पायसाज्येन सहस्रं जुहुयात्सुधीः
शतपुष्पासमुत्थैश्च बीजैर्हुत्वा सहस्रतः
दद्ध्योदनेन शुद्धेन हुत्वा मुच्यते दुर्गतेः
कारागृहाद्भवन्मुक्तो बद्धो मन्त्रप्रभावतः
नित्यं सुगन्धकुसुमैर्महतीं श्रियमाप्नुयात्
अन्नाज्यैर्जुहुयान्नित्यमष्टाविंशतिसंख्यया
अपूपैः षड्रसोपेतैर्हुनेद्वसुसहस्रकम्
जुहुयादयुतं मन्त्री दध्यन्नं च सितान्वितम्
पद्माक्षरैर्युतं बिल्वान्तिकस्थो जुहुयान्नरः
जुहुयात्पायसैर्लक्षं वाचस्पतिसमो भवेत्
तत्काष्टैरेधिते वह्नौ श्रेष्ठं पुत्रमवाप्नुयात्
विलसत्केसरं मन्त्राक्षरद्वन्द्वाष्टपत्रकम्
तद्बहिर्मातृकावर्णैर्यन्त्रं सम्पत्प्रदं नृणाम्
जुहुयादयुतं मन्त्री सर्वत्र विजयी भवेत्
लभेदकण्टकं राज्यं सर्वलक्षणसंयुतम्
अयुतं साध्यनामाढ्यं स वश्यो जायते ध्रुवम्
तावज्जप्त्वा च सप्ताहान्महारोगात्प्रमुच्यते
सर्ववार्गीश्वरेत्यन्ते प्रवदेदीश्वरेत्यथ
बोधयद्वितवान्तो ऽयं मन्त्रस्तारादिरीरितः
देवता स्याद्धयग्रीवो वागैश्वर्यप्रदो विभुः
तुषाराद्रिसमच्छायं तुलसीदामभूषितम्
ध्यात्वैवं प्रजपेन्मन्त्रमयुतं तद्दशांशतः
पूजयेद्वेष्णवे पीठे मूर्तिं संकल्प्य मूलतः
सनन्दनं च सनकं श्रियं च पृथिवीं तथा
निरुक्तं ज्योतिषं पश्चाद्यजेद्व्याकरणं ततः