एवं ध्यात्वा जपेन्मन्त्री सहस्रं पायेन चग
प्रागुक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः
चक्र शङ्खं च पाशं वाङ्कुशं कुलिशमेव च
लोकेशानपि वज्राद्यान्पूजयेत्तदनन्तरम्
भस्माभिमन्त्रितं कृत्वा ग्रहग्रस्तं विलेपयेत्
अनेनैव विधानेन यक्षराक्षसकिन्नरः
पराभिचारकृत्यानि मनुनानेन मन्त्रितम्
सुदिने स्थापयेत्कुम्भे सर्वतोभद्रमण्डले
तेनाभिषिक्तो मनुजः सर्वापत्तिं तरेद् ध्रुवम्
तन्नो नृसिंहः शब्दान्ते वदेंश्चैव प्रचोदयात्
एतस्याः स्मरणादेव सर्वपापक्षयो भवेत्
महाबलाय स्वाहान्तो मन्त्रो वसुधराक्षरः
तारो बीजं तथा शक्तिर्वह्निजाया प्रकीर्तिता
वर्णैः षडङ्गं कृत्वा च मूर्ध्नि भाले च नेत्रयोः
पृष्टे हृद्युदरे नाभौ गुह्ये चोरुस्थले पुनः
अष्टादशैव मन्त्रोत्थास्ततो देवं विचिन्तयेत्
अलकैर्विलसद्वक्त्रं कुम्भं शुद्धांबुपूरितम्
लक्षत्रयं जपेन्मन्त्रं तद्दशांशं घृतप्लुतैः
चन्द्रान्ते कल्पिते पीठे पूर्वोक्तें पूजयेञ्च तम्
केसरेषु षडङ्गानि संपूज्य दिग्दलेषु च
कोणपत्रेषु शान्तिं च श्रियं सरस्वतीं रतिम्
शङ्खं चक्रं गदां शार्ङ्गं दलेष्वष्टसु पूजयेत्
तदस्त्राणि च सम्पूज्य गजानष्टौ समर्चयेत्
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः
ताम्रकर्णी शुभ्रदन्ती चाङ्गना ह्यञ्जना वती
श्रीकामः पायसाज्येन सहस्रं जुहुयात्सुधीः
शतपुष्पासमुत्थैश्च बीजैर्हुत्वा सहस्रतः
दद्ध्योदनेन शुद्धेन हुत्वा मुच्यते दुर्गतेः
कारागृहाद्भवन्मुक्तो बद्धो मन्त्रप्रभावतः
नित्यं सुगन्धकुसुमैर्महतीं श्रियमाप्नुयात्