तारौह्नैपरमान्ते तु ह्रंसफट्प्रणवस्ततः
ह्रैं अनौपम्यरूपधारिणास्त्रं ध्रुवस्ततः
ष्टाङ्गविन्यासविन्य स्तमूर्तिधारिंस्ततश्च फट्
तारो वर्मत्रयं संकरं वं चामुकमस्तकम्
द्वयं ततो महात्मन्स्यान्सम्यग्दर्शययुग्मकम्
उत्तरायं द्वयं पञ्चबाणबीजानि वोञ्चरेत्
नृसिंहान्ते ततः कालात्मने स्वाहा ध्रुवस्ततः
मायातारान्तिमो मन्त्रः सहस्राक्षरसंमितः
श्रीलक्ष्मीर्नृहरिर्बीजं क्षैं शक्तिर्वह्निवल्लभा
क्षेत्रं च परमात्मा तु विनियोगो ऽखिलात्पये
नृसिंहान्तं वह्निजायास्त्रायफटू मन्त्र ईरितः
तारः क्षां च सहस्रान्ते क्षरशब्दाद्विजृंभितम्
मारः क्षीं च महातेनुं प्रभान्ते विकरेति च
तारः क्षूं तप्तयंहायश्चादृक्केशान्त ईरयेत्
नख स्पर्शाद्दिव्यसिंह नमो ऽस्तु भगवन् हरिः
अनेन च शिखा प्रोक्ता कवचं तदनन्तरम्
विह्वलितनृसिंहाय स्वाहान्तं कवचं स्मृतम्
धारणेग्नि प्रियान्तो ऽयं नेत्रमन्त्रः प्रकीर्तितः
सहस्रान्ते युधायाथं नृसिंहायाग्निसुंदरी
उद्यदर्कसहस्राभं त्रीक्षणं भीसभूषणम्
एवं ध्यात्वा जपेन्मन्त्री सहस्रं पायेन चग
प्रागुक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः
चक्र शङ्खं च पाशं वाङ्कुशं कुलिशमेव च
लोकेशानपि वज्राद्यान्पूजयेत्तदनन्तरम्
भस्माभिमन्त्रितं कृत्वा ग्रहग्रस्तं विलेपयेत्
अनेनैव विधानेन यक्षराक्षसकिन्नरः
पराभिचारकृत्यानि मनुनानेन मन्त्रितम्
सुदिने स्थापयेत्कुम्भे सर्वतोभद्रमण्डले
तेनाभिषिक्तो मनुजः सर्वापत्तिं तरेद् ध्रुवम्
तन्नो नृसिंहः शब्दान्ते वदेंश्चैव प्रचोदयात्