भयं जन्मजरान्ते मरणादिशब्दमीरयेत्
ज्ञेयरूपधारणान्ते नृसिंहबृहत्सामतः
अष्टाष्टकं चतुःषष्टि चेटिकाभयमीरयेत्
नमितान्ते पदपदात्पङ्कजान्वित ईरयेत्
सहस्रेक्षणशब्दान्ते सहस्रपादमीरयेत्
सहस्तान्ते ललाटेति सहस्रायुधतो धरात्
मन्त्रेराजेश्वरपदाद्विहायसगतिप्रद
घोराट्टहासहसितविश्वावासपदं ततः
परमहंस विश्वेश विश्वान्ते तु विडंबन
हृषीकेश च स्वच्छन्द निःशेषजीव विन्यसेत्
लंपटान्ते खेचरीति सिद्ध्यतें तु प्रदायक
ततो ब्रह्मसहस्रान्ते कोटिस्रग्रुण्डशब्दतः
वराहान्ते नृसिंहेति वामनान्ते समीरयेत्
रामत्रय ततो विष्णुरूपान्ते धर एव च
निविष्टवह्निजायान्ते स्वधा चैव ततो वषट्
आदिदेवपदात्प्राणापानपश्चान्निविष्टितः
महामाया अमोघान्ते दर्यं दैत्यन्द्रशब्दतः
तेजस्वरान्ते पुरुषपंङेंते सत्यपूरुष
तारमायामूर्तेः फट् वः कामः स्वरादिमः
मायाविश्वात्मने षट् च तारः सौचं तुरात्मने
तारौह्नैपरमान्ते तु ह्रंसफट्प्रणवस्ततः
ह्रैं अनौपम्यरूपधारिणास्त्रं ध्रुवस्ततः
ष्टाङ्गविन्यासविन्य स्तमूर्तिधारिंस्ततश्च फट्
तारो वर्मत्रयं संकरं वं चामुकमस्तकम्
द्वयं ततो महात्मन्स्यान्सम्यग्दर्शययुग्मकम्
उत्तरायं द्वयं पञ्चबाणबीजानि वोञ्चरेत्
नृसिंहान्ते ततः कालात्मने स्वाहा ध्रुवस्ततः
मायातारान्तिमो मन्त्रः सहस्राक्षरसंमितः
श्रीलक्ष्मीर्नृहरिर्बीजं क्षैं शक्तिर्वह्निवल्लभा
क्षेत्रं च परमात्मा तु विनियोगो ऽखिलात्पये