पूर्वोक्तानि च सर्वाणि कार्याण्यायान्ति सिद्धताम्
जस्तेजसे आविराविर्भव वज्रनखान्ततः
तमो ग्रसद्वयं पश्चात्स्वाहान्ते चाभयं ततः
द्विषष्ट्यर्मो ऽस्य मुन्यादि सर्वं पूर्ववदीरितम्
नरसिंहाय तारश्च बीजमस्य यदा ततः
बीजं वराहरूपाय तारो बीज नृसिंहतः
पापध्रुवत्रयं बीजं रामाय निगमादितः
जयद्वयं ततः शालग्रामान्ते च निवासिने
तारः स्वं बीजमित्येष महासाम्राज्यदायकः
छन्दो ऽतिजगती प्रोक्तं देवता कथिता मनोः
षडूदीर्घाढ्येन बीजेन कृत्वाङ्गानि च भावयेत्
दशावतारैः सहितस्तनोतु नृहरिः सुखम्
प्रागुक्ते पूजयेत्पीठे मूर्तिसंकल्प्य मूलतः
इन्द्राद्यानपि वज्राद्यान्सम्पूज्येष्टमवाप्नुयात्
तारो माया रमा कामो बीजं क्रोधपदं ततः
प्रधानधर्माधर्मान्ते निगडेतिपदं वदेत्
कालान्तकसदृक्तोयं स्वेश्वरान्ते सदृग्जलम्
भासकान्ते तु कालाद्यतीतनित्योदितेति च
हृदयाब्जचतुश्चोक्ता दलान्ते तु निविष्टितः
चतुर्विंशात्मन्नन्ते तु पञ्चविंशात्मन्नित्यपि
भगवन्नृसिंहपुरुष क्रोधेश्वर रसा सह
कोट्याभान्ते महादेव निकायदशशब्दतः
पिङ्गलेक्षणसटादष्ट्रा दंष्ट्रायुध नखायुध
सं सक्तिविग्रहान्ते तु भूतापस्मारयातुधान्
भगवन्व्योमचक्रेश्वरान्ते तु प्रभवाप्यय
दह ज्ञानैश्वर्यमन्ते प्रकाशययुगं ततः
सत्यपुरुष शब्दान्ते सदसन्मध्य ईरयेत्
भयं कान्तारशब्दान्ते भयं विषपदात्ततः
अशन्यन्ते भयं दुर्भिक्षभयं मारीशब्दतः
स्कन्दापस्मारशब्दान्ते भयं चौरभयं ततः