अश्वैरश्वांश्च केचित्तु गदादण्डैरथार्द्दयन्
समुक्त्रान्तासवः केचिद्विमानानि समाश्रिताः
ते देवभावमापन्ना दैतेयान्समुपाद्रवन्
शस्त्रैर्बहुविधैर्द्देवान्निजध्नुरतिदारुणाः शक्रस्यैश्वर्यमिच्छन्ती दैत्यानां च पराजयम्
परिधैश्छुरिकाभिश्च कुन्तैश्चक्रैश्च शङ्कुभिः
शक्त्योपलैः शतघ्रीभिः पाशैश्च तलमुष्टिभिः
रथाश्वनागपदगैः सङ्कुलो ववृधे रणः
एवमष्टसहस्राणि युद्धमासीत्सुदारुणम्
सुरलोकं परित्यतज्य सर्वे भीताः प्रदुद्रुवुः
वैरोचनिस्त्रिभुवनं नारायणपरायणः
इत्याज चाश्वमेघैः स विष्णुप्रीणनतत्परः
देवानां प्रीणनार्थाय यैः क्रियन्ते द्विजैर्मखाः
अदितिः स्वात्मजान्वीक्ष्य देवमातातिदुःखिता
किञ्चित्कालं समासीना तिष्टन्ती च ततः परम्
कञ्चित्कालं फलाहारा ततः शीर्णदलाशना
सञ्चिदानन्दसन्दोहं ध्यायत्यात्मानमत्मना
दुरन्तं तत्तपः श्रुत्वा दैतेया मायिनो ऽदितिम्
किमर्थं तप्यते मातः शरीरपरिशोषणम्
त्यजेदं दुःखबहुलं कायशोषणकारणम्
शरीरं यन्ततो रक्ष्यं धर्मसाधनतत्परैः
सुखं त्वं तिष्ट सुभगे पुत्रानस्मान्न खेदय
गावो वा पशवो वापियत्र गावो महीरुहाः
दरिद्रो वापि रोगी वा देशान्तरगतो ऽपि वा
अन्ने वा सलिले वापि धनादौ वा प्रियासु च
साध्वी च स्त्री पतिप्राणा गन्तव्यं तेन वै वनम्
गृहं च मार्यातनयेर्विहीनं यथा तथा मातृविहीनमर्त्यः
इत्युक्ताप्यदितिर्दैप्यैर्न चचाल समाधितः
निरीक्ष्य क्रोधसंयुक्ता हन्तुं चक्रुर्मनोरथम्
दंष्ट्रग्रैरसृजन्वह्निं सो ऽदहत्काननं क्षणात्
तेनैव दग्धा दैतेया ये प्रधर्षयितुं गताः