जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन
इत्थं संप्रार्थ्य जप्त्वा च पटित्वा विसृजेद्विभुम्
जयद्वयं श्रीनृसिंहेत्यष्टार्णो ऽयं मनूत्तमः
श्रीमाञ्जयनृसिंहस्तु सर्वाभीष्टप्रदायकः
षड्वीर्घाढ्ये न कुर्वीत षडङ्गानि विशालधीः
ततो ध्यायेद्धृदि विभुं नृसिंहं चन्द्रशेखरम्
वह्नीन्दुतीव्रकरनेत्र पिनाकपाणे शीतांशुशेखर रमेश्वर पाहि विष्णो
साज्येन पायसान्नेन जुहुयात्प्राग्वदर्चनम्
महाविष्णु ततो ब्रूयाज्ज्वलन्तं सर्वतोमुखम्
वदेद्धोरतरं ते तु तनुरूपं च ठद्वयम्
बन्धद्वयं घातयेति द्वयं वर्मास्त्रमीरयेत्
पञ्चाशीत्यक्षरो मन्त्रो भजतामिष्टदायकः
छन्दसी च तथा घोरनृसिंहो देवता मतः
विशेषान्मन्त्रवर्यो ऽयं सर्वरक्षाकरो मतः
ऋषिः प्रजापतिश्चास्यानुष्टुप्छन्द उदाहृतम्
जं बीजं हं तथा शक्तिर्विनियोगो ऽखिलाप्तये
रौद्रं ध्यायेन्नृसिंहं तु शत्रुवक्षो विदारणम्
तप्तहाटककेशान्तज्वलप्तावकलोचनम्
मुनिर्ब्रह्मा समाख्यातो ऽनुष्टुप्छन्दः समीरितः
पादैश्चतुर्भिः सर्वेण पञ्चाङ्गानि समाचरेत्
पूर्वोक्तानि च सर्वाणि कार्याण्यायान्ति सिद्धताम्
जस्तेजसे आविराविर्भव वज्रनखान्ततः
तमो ग्रसद्वयं पश्चात्स्वाहान्ते चाभयं ततः
द्विषष्ट्यर्मो ऽस्य मुन्यादि सर्वं पूर्ववदीरितम्
नरसिंहाय तारश्च बीजमस्य यदा ततः
बीजं वराहरूपाय तारो बीज नृसिंहतः
पापध्रुवत्रयं बीजं रामाय निगमादितः
जयद्वयं ततः शालग्रामान्ते च निवासिने
तारः स्वं बीजमित्येष महासाम्राज्यदायकः
छन्दो ऽतिजगती प्रोक्तं देवता कथिता मनोः