पुनर्न्यसेत्प्रयत्नेन ध्यानं कुर्वन्समाहितः
पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः
गिविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान्
आग्नेय्यामरविन्दाक्षो मुसलीमधुसूदनः
वायव्यां माधवो वज्री तरुणादित्यसन्निभः
विद्युत्प्रभो हृषीकेश उर्द्धू पातु समुद्गरः
सर्वायुधः सर्वशक्तिः सर्वाद्यः सर्वतोमुखः
स बाह्याभ्यन्तरे देहमव्याद्दामो दरो हरिः
प्रविष्टो ऽहं न मे किञ्चिद्भयमस्ति कदाचन
सर्वेषु नृहरेर्मन्त्रवर्गेष्वेवं विधिर्मतः
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन
इत्थं संप्रार्थ्य जप्त्वा च पटित्वा विसृजेद्विभुम्
जयद्वयं श्रीनृसिंहेत्यष्टार्णो ऽयं मनूत्तमः
श्रीमाञ्जयनृसिंहस्तु सर्वाभीष्टप्रदायकः
षड्वीर्घाढ्ये न कुर्वीत षडङ्गानि विशालधीः
ततो ध्यायेद्धृदि विभुं नृसिंहं चन्द्रशेखरम्
वह्नीन्दुतीव्रकरनेत्र पिनाकपाणे शीतांशुशेखर रमेश्वर पाहि विष्णो
साज्येन पायसान्नेन जुहुयात्प्राग्वदर्चनम्
महाविष्णु ततो ब्रूयाज्ज्वलन्तं सर्वतोमुखम्
वदेद्धोरतरं ते तु तनुरूपं च ठद्वयम्
बन्धद्वयं घातयेति द्वयं वर्मास्त्रमीरयेत्
पञ्चाशीत्यक्षरो मन्त्रो भजतामिष्टदायकः
छन्दसी च तथा घोरनृसिंहो देवता मतः
विशेषान्मन्त्रवर्यो ऽयं सर्वरक्षाकरो मतः
ऋषिः प्रजापतिश्चास्यानुष्टुप्छन्द उदाहृतम्
जं बीजं हं तथा शक्तिर्विनियोगो ऽखिलाप्तये
रौद्रं ध्यायेन्नृसिंहं तु शत्रुवक्षो विदारणम्
तप्तहाटककेशान्तज्वलप्तावकलोचनम्
मुनिर्ब्रह्मा समाख्यातो ऽनुष्टुप्छन्दः समीरितः
पादैश्चतुर्भिः सर्वेण पञ्चाङ्गानि समाचरेत्