श्रीबीजेन तु तुसंवेद्य वलयत्रयसंयुतम्
त्रैलोक्यमोहनं नाम सर्वकामार्थसाधनम्
धारणाज्जयमाप्नोति सत्यं सत्यं न संशयः
अष्टारं विलिखेद्यन्त्रं श्लक्ष्णं कर्णिकया युतम्
एकाक्षरं नारसिंहं मध्ये चैव ससाध्यकम्
स्वर्णरौप्यसुताम्रैश्च वेष्टयेत्क्रमतः सुधीः
कण्ठे भुजे शिखायां वा धारयेद्यन्त्रमुत्तमम्
दुष्टास्तं नैव बाधन्ते पिशाचोरगराक्षसाः
अथान्यत्संप्रवक्ष्यामि यन्त्रं सर्ववशङ्करम्
मात्राद्वादशसंभिन्नदलेन विलिखेद्रुधः
कालान्तकं नाम चक्रं सुरासुखशङ्करम्
यस्य धारणमात्रेण सर्वत्र विजयी भवेत्
बीजं हृद्भगवान्ङेंतो नरसिंहाय तत्परम्
त्राय सर्वादिरक्षोघ्नाय च नः सर्वभूपदम्
नामान्ते दहयुग्मं च पचद्वयमुदीरयेत्
अष्टषष्ट्यक्षरैः प्रोक्तो ज्वालामाली मनूत्तमः
पङ्क्तिभी रुद्रासंख्याकैरष्टादशभिरक्षरैः
पूर्वोक्तरूपिणं ज्वालामालिन नृहरिं स्मरेत्
रौद्रापस्मारभूतादिनाशको ऽयं मनूत्तमः
षडक्षरो महामन्त्रः सर्वाभीष्टप्रदायकः
षड्दीर्घभाजा बीजेन षडङ्गानि समाचरेत्
सिद्धेन मनुनानेन सर्वसिद्धिर्भवेन्नृणाम्
प्रजापतिर्मुनिश्च्छन्दो ऽनुष्टुप् लक्ष्मीनृकेसरी
विन्यस्यैवं तु पञ्चाङ्गं स्वात्मरक्षां समाचरेत्
प्रणवो हृच्छिवार्यन्ति महते शरभाय च
अथवा राममन्त्रान्ते परं क्षद्वितयं पठेत्
केशवः पातु पादौ मे जङ्घे नारायणो ऽवतु
नाभिं विष्णुश्च मे पातु जठरं मधुसूदनः
श्रीधरः पातु कण्ठं च हृषीकेशो मुखं मम
एवं विन्यस्य चाङ्गेषु जपकाले तु साधकः