नृसिंहः सर्वलोकेशः सर्वाभरणभूषितः
शङ्खचचक्रधरौ द्वौ तु द्वौ च बाणघनुर्द्धरौ
पाशाङ्कुशधरौ द्वौ च द्वौ रिपोर्मुकुटार्पितौ
ध्यायेन्नारद नीलाभमुग्रकर्ममण्यनन्यधीः
नृसिंहः सर्वभूतेशः सर्वसिद्धिकरः परः
हलं च मुशलं चैव अभयं चाङ्कुशं तथा
वामभागे करैः शंङ्खं खेटं पाशं च शूलकम्
कार्मुकं तर्जनीमुद्रां गदां डमरुशूर्पकौ
ऊर्द्ध्वीकृताभ्यां बाहुभ्यां आन्त्रमालाधरं विभुम्
प्रियङ्करं च भक्तानां दैत्यानां च भयङ्करम्
एवं ध्यात्वा जपेन्मन्त्री सर्वकार्यार्थसिद्धये
स्वर्णवर्णसुपर्णस्थं विद्युन्मालासटान्वितम्
चक्रशङ्खाभयवरान्दधतं करपल्लवैः
शत्रोः सेनानिरोधेन यत्नं कुर्याञ्च साधकम्
देवं नृसिंहं संपूज्य कुसुमाद्युपचारकैः
रिपुं खादन्निव जपेन्निर्दहन्निव तं क्षिपेत्
प्रस्थापयेच्छुभे लग्ने परराष्ट्रजयेच्छया
स्मृत्वा जपं प्रक्लर्वीत यावदायाति सा पुनः
प्रीणयेन्मन्त्रिणं राजा विभवैः प्रीतमानसः
यदि मन्त्री न तुष्येत तदानर्थो महीपतेः
अष्टोत्तरशतमूलमन्त्रमन्त्रितभस्मना
लिप्ताङ्गः सर्वरोगैश्च मुच्यते नात्र संशयः
औदुम्बरसमिद्भिस्तु भवेद्धान्यसमृद्धिमान्
क्रुद्धस्य सन्निधौ राज्ञो जपेदष्टोत्तरं शतम्
कुन्दप्रसूनैरुदयं मोचाभिर्विघ्ननाशनम्
शाल्युत्थसक्तुहोमेन वशयेदखिलं जगत्
दधिमध्वाज्यमिश्रां तु गुडूचीं चतुरङ्गुलाम्
शनैश्चरदिने ऽश्वत्थं स्पृष्ट्वा चाष्टोत्तरं शतम्
अथ ते संप्रवक्ष्यामि यन्त्रं त्रैलोक्यमोहनम्
श्वेतभूर्ज्जे लिखेत्पद्मं द्वात्रिंशत्सिंहसंयुतम्