हृदि नाभौ च कट्यादिपादान्तं नवसु न्यसेत्
नृसिंहाद्यानि तान्येव पूर्ववद्विन्यसेत्सुधीः
विभक्ता पन्त्रवर्णांश्च क्रमात्स्थानेषु विन्यसेत्
हृदयाद्भ्रूयुगान्तं तु नेत्रत्रये च मस्तके
विन्यसेन्नामतो धीमान्हरिन्यासो ऽयमीरितः
एवं न्यासविधिं कृत्वा ध्यायेच्च नृहरिं हृदि
नखाग्रभिन्नदैत्येशो ज्वालामालासमन्वितः
नृसिंहो ऽस्मान्सदा पातुस्थलांबुगगनोपगः
जानुमध्यगतौ कृत्वा चिबुकोष्टौ समावुभौ
मुखं विजृंभितं कृत्वा लेलिहानां च जिह्विकाम्
वामस्याङ्गुष्टतो बद्ध्वाकनिष्टामङ्गलीत्रयम्
अङ्गुष्टाभ्यां च करयोस्तथाऽक्रम्य कनिष्टके
हस्तावधोमुखौ कृत्वा नाभिदेशे प्रसार्य च
हस्तावूर्द्ध्वमुखौ कृत्वा तले संयोज्य मध्यमे
तर्जन्यौ पृष्टतो लग्नौ अङ्गुष्टौ तर्जनीश्रितौ
चक्रमुद्रा तथा कृत्वा तर्जनीभ्यां तु मध्यमे
एता मुद्रा नृसिंहस्य सर्वमन्त्रेषु संमताः
घऋताक्तर्जुहुयाद्वह्नौ पीठे पूर्वोदितेर्ऽचयेत्
गरडादीन् श्रीमुखांश्च विदिक्षु लोकपान्बहिः
सौम्ये कार्ये स्मरेत्सौम्यं क्रूरं क्रूरे स्मरेद्बुधः
निशितैर्नखदंष्ट्राग्रैः खाद्यमानं च संस्मरेत्
जायते मण्डलादर्वाक् शत्रुर्वै शमनातिथिः
श्रीकामः सततं ध्यायेत्पूर्वोक्तं नृहरिं सितम्
विषमृत्यूपरोगादिसर्वोपद्रवनाशनम्
आन्त्रमालाधरं रौद्रं कण्ठहारेण भूषितम्
चन्द्रमौलिं नीलकण्ठं प्रतिवक्त्रं त्रिनेत्रकम्
अक्षसूत्रं गदापद्मं शङ्खं गोक्षीरसन्निभम्
खड्गं शूलं च बाणं च नृहरिं रुद्ररूपिणम्
पूर्वादि चोत्तरं यावदूद्ध्वार्स्यं सर्ववर्णकम्
सर्वमृत्युहरं दिव्य स्मरणात्सर्वसिद्धिदम्