मासमात्रेण वश्याःस्युस्तस्य सर्वे नृपोत्तमाः
स भवेद्दासवत्सद्यो मन्त्रस्यास्य प्रभावतः
साधयेत्सकलान्कामान्विष्णुतुल्यो न संशयः
यान्समाराध्य ब्रह्माद्याश्चक्रुः सृष्ट्यादि कर्म वै
एकाक्षरः स्मृतो मन्त्रो भजतां सुरपादपः
देवता नृहरिः प्रोक्तो विनियोगो ऽखिलाप्तये
अर्केन्दुवह्निनयनं शरदिन्दुरुचं करैः
लक्षं जपस्तद्दशांशहोमश्च घृतपायसैः
खगेशं शङ्करं शेषं शतानन्दं दिगालिषु
दन्तच्छदेषु नृहरींस्तावतः पूजयेत्क्रमात्म
करालो विकरालश्च दैत्यान्तो मधुसूदनः
सुघोरकश्च सुहनुर्विश्वको राक्षसांतकः
मेघवर्णः कुभघकर्णः कृतान्ततीव्रतेजसौ
विघ्नक्षमो महासेनः सिंहा द्वात्रिंशदीरिताः
एवं सिद्धे मनौ मन्त्री साधेयेदखिलेप्सितान्
विष्णुं ज्वलन्तं भृग्वीशो जलं पद्मासनं ततः
गदी सेंदुनृसिंहं च भीषणं भद्वमेव च
नृहरेर्द्वाविंशदर्णो ऽयं मन्त्रः साम्राज्यदायकः
देवता नृहरिश्चास्य सर्वेष्टुफलदायकः
वेदैश्चतुर्भिर्वसुभिः षड्भिः षड्भिर्युगाक्षरैः
मुखबाह्वङ्घ्रिसंध्यग्रेष्वथ कुक्षौ तथा हृदि
प्रणवान्तरितान् कृत्वा न्यसेत्साधकसत्तमः
कराङ्घ्षष्टाद्यङ्गुलीषु पृथगाद्यन्तपर्वणोः
शिरोललाटे भ्रुमध्ये नेत्रयोः कर्णयोस्तथा
कण्ठे घोणे च भुजयोर्द्दत्तनौ नाभिमण्डले
गुल्फे पादकराङ्गुल्योः सर्वसन्धिषु रोमसु
वर्णान्पदे गुल्फजानुकटिनाभिहृदि स्थले
कर्णयोर्वदने नासापुटे नेत्रे च मूर्द्धनि
आस्ये च हृदय नाभौ पादान्सर्वाङ्गकेन्यसेत्
उग्रादीनि पदानी ह मृत्युमृत्युं नमाम्यहम्