भूकानि त्रासयद्वन्द्वं वर्मफड्वह्निसुंदरी
महाखड्गतीक्ष्णपदाच्छिवियुग्मं समीरयेत्
महाकौमोदकीत्यन्ते वदेञ्चैव महाबले
वर्मास्त्रवह्निजायान्तकौमोदकि हृक्षतिमः
महाङ्कुशपदात्कुट्चयुग्मं हुंफट्वसुप्रिया
संवर्तकमहान्ते तु मुसलेति पदं वदेत्
मुसलाय नमः प्रोक्तो मन्त्रो सुसलपूजने
हुं फटे स्वाहा च पाशाय नमः पाशार्चने मनुः
ताराद्या मनवो ह्येते ततः शक्रादिकान्यजेत्
मासमात्रं तु कुसुमैः पूजयित्वा हयारिजैः
मासमात्रेण वश्याःस्युस्तस्य सर्वे नृपोत्तमाः
स भवेद्दासवत्सद्यो मन्त्रस्यास्य प्रभावतः
साधयेत्सकलान्कामान्विष्णुतुल्यो न संशयः
यान्समाराध्य ब्रह्माद्याश्चक्रुः सृष्ट्यादि कर्म वै
एकाक्षरः स्मृतो मन्त्रो भजतां सुरपादपः
देवता नृहरिः प्रोक्तो विनियोगो ऽखिलाप्तये
अर्केन्दुवह्निनयनं शरदिन्दुरुचं करैः
लक्षं जपस्तद्दशांशहोमश्च घृतपायसैः
खगेशं शङ्करं शेषं शतानन्दं दिगालिषु
दन्तच्छदेषु नृहरींस्तावतः पूजयेत्क्रमात्म
करालो विकरालश्च दैत्यान्तो मधुसूदनः
सुघोरकश्च सुहनुर्विश्वको राक्षसांतकः
मेघवर्णः कुभघकर्णः कृतान्ततीव्रतेजसौ
विघ्नक्षमो महासेनः सिंहा द्वात्रिंशदीरिताः
एवं सिद्धे मनौ मन्त्री साधेयेदखिलेप्सितान्
विष्णुं ज्वलन्तं भृग्वीशो जलं पद्मासनं ततः
गदी सेंदुनृसिंहं च भीषणं भद्वमेव च
नृहरेर्द्वाविंशदर्णो ऽयं मन्त्रः साम्राज्यदायकः
देवता नृहरिश्चास्य सर्वेष्टुफलदायकः
वेदैश्चतुर्भिर्वसुभिः षड्भिः षड्भिर्युगाक्षरैः