तदन्तर्मणिसम्पत्तिस्फुरत्तोरणमण्डपे
मणिवेद्यादि वियत्किरीटाग्रसमर्चिते
शङ्खपाशेषु चापानि मुसलं नन्दकं गदाम्
पश्यत्यङ्कस्थयांभोजश्रिया रागोल्लसदृशा
कुण्डेर्ऽद्धचन्द्रे पद्मैर्वा जातीपुष्पैश्च होमयेत्
पूजयिष्यन् जगन्नाथं गायत्र्या प्रोक्षयेद्वुधः
स्मराय धीमहीत्युक्त्वा तन्नो विष्णुः प्रचोदयात्
कल्पयेदासनं पीठे पूर्वोक्ते वैष्णवे सुधीः
मूर्तिं संकल्पमूलेन तस्यामावाहयेदतः
श्रीवत्सहृदयं तेन श्रीवत्सं स्तनयोर्यजेत्
पूजयेद्वनमालायै हृदन्तेन गले च ताम्
दलेषु पूजयेत्पश्चाल्लक्ष्म्याद्यावृत्तचामराः
उत्फुल्लांभघोजनयना मदविभ्रममन्थराः
कान्तिः शान्तिस्तुष्टिपुष्टिबीजाद्या ङेनमोन्तिकाः
ह्रस्वत्रयक्लीबसर्वरहितस्वरसंयुतम्
दलाग्रेषु यजेच्छङ्खं शार्ङ्गं चक्रमसिं गदाम्
महाजलचरा यान्ते वर्मास्त्रं वह्निवल्लभा
शार्ङ्गाय सशयान्ते च वर्मास्त्रं वह्निवल्लभा
सुदर्शनमहान्ते तु चक्रराजपदं वदेत्
छिन्धिद्वयं ततः पश्चाद्विदारययुगं ततः
भूकानि त्रासयद्वन्द्वं वर्मफड्वह्निसुंदरी
महाखड्गतीक्ष्णपदाच्छिवियुग्मं समीरयेत्
महाकौमोदकीत्यन्ते वदेञ्चैव महाबले
वर्मास्त्रवह्निजायान्तकौमोदकि हृक्षतिमः
महाङ्कुशपदात्कुट्चयुग्मं हुंफट्वसुप्रिया
संवर्तकमहान्ते तु मुसलेति पदं वदेत्
मुसलाय नमः प्रोक्तो मन्त्रो सुसलपूजने
हुं फटे स्वाहा च पाशाय नमः पाशार्चने मनुः
ताराद्या मनवो ह्येते ततः शक्रादिकान्यजेत्
मासमात्रं तु कुसुमैः पूजयित्वा हयारिजैः