द्रावयद्वितयं तावदाकर्षययुगं ततः द्रावयद्वितयं तावदाकर्षययुगं ततः
सर्वसौभाग्यशब्दान्ते करसर्वपदं वदेत्
चक्रेण गदया पश्चात्खड्गेन तदनन्तरम्
अङ्कुशेनेति संप्रोच्य ताडयद्वितयं पुनः
ततो मे सिद्धिराभास्य भवमन्ते च वर्म फट्
जैमिनिर्मुनिरस्योक्तश्छन्दश्चामितमीरितम्
कामो बीजं रमा शक्तिर्विनियोगो ऽखिलाप्तये
हृदयं कीर्तितं पश्चाज्जगत्क्षोभणशब्दतः
मन्मथो तमशब्दान्ते मङ्गजे पदमीरयेत्
परमान्ते भृगुकर्णाभ्यां च सर्वपदं ततः
सुरासुरान्ते मनुजसुंदरीति पदं वदेत्
ततः प्रहरणधरसर्वकामुकतत्पदम्
आकर्षयद्वयं पश्चान्महाबलपदं ततः
वदेत्रिभुवनं पश्चाच्चर सर्वजनेति च
वशमानय वर्मान्ते नेत्रमन्त्रः समीरितः
तारस्त्रैलोक्यशब्दान्ते मोहनेति पदं वदेत्
मम्नथानन्तरं सर्वस्त्रीणां हृदयमीरयेत्
अनेन व्यापकं कृत्वा जगन्नाथं स्मरेत् सुधीः
उद्यदर्काभुजालाभं स्वधाम्नोज्वालदिङ्मुखम्
दिव्यवातोञ्चलत्कञ्जपरागोद्धूलितांबरम्
तदन्तर्मणिसम्पत्तिस्फुरत्तोरणमण्डपे
मणिवेद्यादि वियत्किरीटाग्रसमर्चिते
शङ्खपाशेषु चापानि मुसलं नन्दकं गदाम्
पश्यत्यङ्कस्थयांभोजश्रिया रागोल्लसदृशा
कुण्डेर्ऽद्धचन्द्रे पद्मैर्वा जातीपुष्पैश्च होमयेत्
पूजयिष्यन् जगन्नाथं गायत्र्या प्रोक्षयेद्वुधः
स्मराय धीमहीत्युक्त्वा तन्नो विष्णुः प्रचोदयात्
कल्पयेदासनं पीठे पूर्वोक्ते वैष्णवे सुधीः
मूर्तिं संकल्पमूलेन तस्यामावाहयेदतः
श्रीवत्सहृदयं तेन श्रीवत्सं स्तनयोर्यजेत्