छन्दो ऽनुष्टुब्देवतादिवराहः समुदीरितः
शिखा तेजो ऽधिपतये विश्वरूपाय वर्म च
अथवा गिरिषट्सप्तबाणैर्वसुभिरक्षरैः
ततौ ध्यायेदनेकार्कनिभमादिवराहकम्
इष्टाभीतिगदाशङ्खचक्रशक्त्यसिखेटकान्
एवं ध्यात्वा जपेल्लक्षं दशांशं सरसीरुहैः
मूलेन मूर्तिं सङ्कल्प्य तस्यां सम्पूजयेद्विभुम्
जपादेवावर्नि दद्याद्धनं धान्यं महीं श्रियम्
शिलां शुद्धां विनिक्षिप्य स्पृष्ट्वा तामयुतं जपेत्
भूतप्रेताहिचौरादिकृतां बाधां निवारयेत्
मन्त्रितां मूलमन्त्रेण विभजेत्तां त्रिधा पुनः
गोदुग्धे परमालोड्य शोधितांस्तन्दुलान् क्षिपेत्
अवतार्य चरुं पश्चाद्वह्नौ देयं यथाविधि
जुहुयात्संस्कृते वह्नौ अष्टोत्तरशतं सुधीः
विरोधो नश्यति क्षेत्रे शत्रुचौराद्युपद्रवाः
आदाय पूर्वविधिना हविरापाद्य पूर्ववत्
एवं स सप्तारवारेषु जुहुयात्क्षेत्रसिद्धये
अभीष्टभूम्याधिपत्यं लभते नात्र संशयः
स्वर्णाभं पार्थिवे पीते मण्डले सुसमाहितः
वारुणे मण्डले ध्यायेद्वाराहं हिमसन्निभघम्
वश्यार्थं च सदा ध्यायेद्वर्ह्याभं वह्निमण्डे
ह्यमण्डलगतं स्वच्छं वाराहं सर्वसिद्धिदम्
भग्वर्धीशयुतं व्योमबिन्दुभूषितमस्तकम्
पूजाद्यार्ध्यादिकं सर्वमस्यां पूर्वोक्तवञ्चरेत्
ताराद्यो वसुवर्णो ऽयं सर्वैश्वर्यप्रदायकः
देवश्चन्द्रेद्वब्धिनेत्रैः सवेणाङ्गक्रिया मता
धरणिद्वितयं पश्चाद्धरेर्द्वयमुदीरयेत् धरणिद्वितयं पश्चाद्धरेर्द्वयमुदीरयेत्
वराहो ऽस्य मुनिश्छन्दो गायत्री निवृदादिका वराहो ऽस्य मुनिश्छन्दो गायत्री निवृदादिका
रामवेदाग्निबाणाक्षिनेत्रार्णैरङ्गरकल्पनम् रामवेदाग्निबाणाक्षिनेवार्णैरङ्गकल्पनम्
नीलांबुजद्वयं शालिमञ्जरीं च शुक्रं करैः नीलांबुजद्वयं शालिमञ्जरीञ्च शुकं करैः