ततः पुरुषसूक्तोक्तमन्त्रैर्न्यासं समाचरेत्
बाहुयुग्मे तथा बाहूंराजन्य इति विन्यसेत्
न्यसेत्पादद्वये मन्त्री पद्भ्यां शूद्रो अजायत
एवं न्यासविधिं कृत्वा ध्यायेत्पूर्वोक्तमण्डपे
पूर्वोक्तरूपिणं देवं श्रीकरं लोकमोहनम्
रक्तांबुजैः समिद्भिश्च विल्वक्षीरिद्रुमोद्भवैः
अश्वत्थोदुंबरप्लक्षवटाः क्षीरिद्रुमाः स्मृता
अङ्गावरणदिक्पालहेतिभिः सहितं विभुम्
तारो हृद्भगवान् ङेंतो वराहेति ततः परम्
भूपतित्वं च मे देहि ददापय शुचिप्रिया
छन्दो ऽनुष्टुब्देवतादिवराहः समुदीरितः
शिखा तेजो ऽधिपतये विश्वरूपाय वर्म च
अथवा गिरिषट्सप्तबाणैर्वसुभिरक्षरैः
ततौ ध्यायेदनेकार्कनिभमादिवराहकम्
इष्टाभीतिगदाशङ्खचक्रशक्त्यसिखेटकान्
एवं ध्यात्वा जपेल्लक्षं दशांशं सरसीरुहैः
मूलेन मूर्तिं सङ्कल्प्य तस्यां सम्पूजयेद्विभुम्
जपादेवावर्नि दद्याद्धनं धान्यं महीं श्रियम्
शिलां शुद्धां विनिक्षिप्य स्पृष्ट्वा तामयुतं जपेत्
भूतप्रेताहिचौरादिकृतां बाधां निवारयेत्
मन्त्रितां मूलमन्त्रेण विभजेत्तां त्रिधा पुनः
गोदुग्धे परमालोड्य शोधितांस्तन्दुलान् क्षिपेत्
अवतार्य चरुं पश्चाद्वह्नौ देयं यथाविधि
जुहुयात्संस्कृते वह्नौ अष्टोत्तरशतं सुधीः
विरोधो नश्यति क्षेत्रे शत्रुचौराद्युपद्रवाः
आदाय पूर्वविधिना हविरापाद्य पूर्ववत्
एवं स सप्तारवारेषु जुहुयात्क्षेत्रसिद्धये
अभीष्टभूम्याधिपत्यं लभते नात्र संशयः
स्वर्णाभं पार्थिवे पीते मण्डले सुसमाहितः
वारुणे मण्डले ध्यायेद्वाराहं हिमसन्निभघम्