मूलार्णहृत्परायाद्यमात्मने हृदयान्तिमम्
पूर्वोक्तं ध्यानमत्रापि भानुलक्षजपो मनोः
पीठे पूर्वोदिते मन्त्री मूर्ति संकल्प्य मूलतः
अङ्गानि पूर्वमभ्यर्च्य वासुदेवादिकास्ततः
तृतीयावरणे पूज्याः प्रोक्ता द्वादश मूर्तयः
एवमावरणैरिष्ट्वा पञ्चभिर्विष्णुमव्ययम्
पुरुषोत्तमसंज्ञस्य विष्णोर्भेदचतुष्टयम्
श्रीकरश्च हृषीकेशः कृषअणश्चात्र चतुर्थकः
वर्मास्त्राण्यग्निप्रियान्तो मन्त्रो वह्नीन्दुवर्णवान्
पुरुषोत्तमसंज्ञो ऽत्र बीजशक्तीस्मरन्दिरे
कृत्वाङ्गानि ततो ध्यायेद्विधिवत्पुरुषोत्तमम्
लसत्करं पीतवस्रं स्मरेच्छ्रीपुरुषोत्तमम्
मौक्तिकौघशमदमविराजितवितानके
लसन्माणिक्यवेद्यां तु दीत्पार्कायुततेजसि
नवलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः
एवमाराध्य देवेशं प्राप्नोति महतीं श्रियम्
उत्तिष्टेति पदं पश्चाच्छ्रीकराग्निप्रियान्तिमः
श्रीकाराख्यो हरिः प्रोक्तो देवता सकलेष्टदः
शिखा प्रमर्द्दयद्वन्द्वं वर्म प्रध्वंसयद्वयम्
मस्तके नेत्रयोः कण्ठहृदये नाभिदेशके
ततः पुरुषसूक्तोक्तमन्त्रैर्न्यासं समाचरेत्
बाहुयुग्मे तथा बाहूंराजन्य इति विन्यसेत्
न्यसेत्पादद्वये मन्त्री पद्भ्यां शूद्रो अजायत
एवं न्यासविधिं कृत्वा ध्यायेत्पूर्वोक्तमण्डपे
पूर्वोक्तरूपिणं देवं श्रीकरं लोकमोहनम्
रक्तांबुजैः समिद्भिश्च विल्वक्षीरिद्रुमोद्भवैः
अश्वत्थोदुंबरप्लक्षवटाः क्षीरिद्रुमाः स्मृता
अङ्गावरणदिक्पालहेतिभिः सहितं विभुम्
तारो हृद्भगवान् ङेंतो वराहेति ततः परम्
भूपतित्वं च मे देहि ददापय शुचिप्रिया