नारायणाय शब्दान्ते विद्महे पदमीरयेत्
तन्नो विष्णुः प्रचोवर्णान्संवदेञ्चोदयादिति
तारो हृद्भगवान् ङेंतो वासुदेवाय कीर्तितः
स्त्रीशूद्राणां वितारो ऽयं सतारस्तु द्विजन्मनाम्
देवता वासुदेवस्तु बीजं शक्तिर्ध्रुवश्च हृत्
मूर्ध्नि भाले दृशोरास्ये गले दोर्हृदये पुनः
न्यासेत्क्रमान् मन्त्रवर्णान्सृष्टिन्यासो ऽयमीरितः
पादादारभ्य मूर्द्धानं न्यासं संहारकं विदुः
बीवं प्राणं तथा चित्तं हृत्पद्मं सूर्यमण्डलम्
संकर्षणं च प्रद्युम्नमनिरुद्धं ततः परम्
मूलार्णहृत्परायाद्यमात्मने हृदयान्तिमम्
पूर्वोक्तं ध्यानमत्रापि भानुलक्षजपो मनोः
पीठे पूर्वोदिते मन्त्री मूर्ति संकल्प्य मूलतः
अङ्गानि पूर्वमभ्यर्च्य वासुदेवादिकास्ततः
तृतीयावरणे पूज्याः प्रोक्ता द्वादश मूर्तयः
एवमावरणैरिष्ट्वा पञ्चभिर्विष्णुमव्ययम्
पुरुषोत्तमसंज्ञस्य विष्णोर्भेदचतुष्टयम्
श्रीकरश्च हृषीकेशः कृषअणश्चात्र चतुर्थकः
वर्मास्त्राण्यग्निप्रियान्तो मन्त्रो वह्नीन्दुवर्णवान्
पुरुषोत्तमसंज्ञो ऽत्र बीजशक्तीस्मरन्दिरे
कृत्वाङ्गानि ततो ध्यायेद्विधिवत्पुरुषोत्तमम्
लसत्करं पीतवस्रं स्मरेच्छ्रीपुरुषोत्तमम्
मौक्तिकौघशमदमविराजितवितानके
लसन्माणिक्यवेद्यां तु दीत्पार्कायुततेजसि
नवलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः
एवमाराध्य देवेशं प्राप्नोति महतीं श्रियम्
उत्तिष्टेति पदं पश्चाच्छ्रीकराग्निप्रियान्तिमः
श्रीकाराख्यो हरिः प्रोक्तो देवता सकलेष्टदः
शिखा प्रमर्द्दयद्वन्द्वं वर्म प्रध्वंसयद्वयम्
मस्तके नेत्रयोः कण्ठहृदये नाभिदेशके