प्रह्वी सत्या तथेशाननुग्रहा नवमी मता
तात्मने वासुदेवाय सर्वात्मेति पदं वदेत्
षड्विंशदक्षरः पीठमन्त्रो ऽनेनासनं दिशेत्
आदौ चाङ्गानि संपूज्य मन्त्राणां केशरेषु च
प्रद्युम्नमनिरुद्धं च शक्तीः कोणेष्वथार्चयेत्
हेमपीततमालेन्द्रनीलाभाः पीतवाससः
सितकाञ्चनगोदुग्धदूर्वावर्णाश्च शक्तयः
पूजयेन्मुसलं खड्गं वनमालां यथाक्रमात्
कुङ्कुमाभं समभ्यर्च्येद्वहिरग्रे खगेश्वरम्
मुक्तामाणिक्यसंकाशौ पश्चिमे ध्वजमपर्चयेत्
दुर्गां श्यामां वायुकोणे सेनान्यं पीतमैश्वरे
एवमावरणैर्युक्तं योर्ऽचजयेद्विष्णुमव्ययम्
क्षेत्रधान्यसुवर्णानां प्पाप्तये धारणीं स्मरेत्
चिन्तयेद्भारतीं देवीं वीणापुस्तकधारिणीम्
क्षीराब्धिफेनपुञ्जाभे वसानां श्वेतवाससी
वेदवेदार्थतत्त्वज्ञो जायते सर्ववित्तमः
शश्त्रं संमन्त्र्य मन्त्रेण शब्रून्हत्वा निवर्तते
शतमष्टोत्तरं जण्त्वा वामहस्ताभिमन्त्रिताः
गारुडेन च संयोज्य पञ्चार्णेन जपेत्तदा
अशोकफलके तार्क्ष्यमालिख्याशोकसंहतौ
जुहुयात्तानि पुष्पाणि त्रिसंध्यं सप्तपत्रकम्
गाणपत्येन संयोज्य जपेल्लक्षं पयोव्रतः
वाणिबीजेन संयुक्तं षण्मासं योजयेन्नरः
हुत्वा गुङ्चीशकलान्यर्द्धागुलमितानि च
शनैश्वर दिने सम्यक् स्पृष्ट्वा श्वत्थं च पाणिना
पञ्चविंशतिधा जप्त्वा नित्यं प्रातः पिबेज्जलम्
कुंभं संस्थाप्य विधिवदापूर्य शुद्धवारिणा
चन्द्रसूर्योपरागे तु ह्युपोष्याष्टसहस्रकम्
मेधां कवित्वं वाक्सिद्धिं लभते नात्र संशयः
नारायणस्य मन्त्रो ऽयं सर्वमन्त्रोत्तमोत्तमः