मनसा निर्वृत्तिं प्राप्यसस्मार च गुरोर्वचः
पीर्ववृत्तं च विप्राय सर्वं तस्मै न्यवेदयत्
नामानि व्याहरन्विष्णोः सद्यो वाराणसीं ययौ
ब्राह्मणीदत्तश पात्तु मुक्तो मित्रसहो ऽभवत्
अभिषिक्तो मुनुश्रेष्ठ स्वकं राज्यमपालयत्
वशिष्टात्प्राप्य सन्तानं गतो मोक्षं नृपोत्तमः
गृणञ्छृण्वन्स्मरन्गङ्गां पीत्वा मुक्तो भवेन्नरः
पारं गन्तुं सुराधीशैर्ब्रह्मविष्णुशिवरपि
विमुक्तो ब्रह्मसदनं नरो याति न संशयः
तदैव पापनिमुक्तो ब्रह्मलोके महीयते
तदुत्पत्तिं वद भ्रातरनुग्राह्यो ऽस्मि ते यदि
वदृतां शृण्वतां चैंव पुण्यदां पापनाशिनीम्
दक्षात्मजे तस्य भार्ये दितिश्चादितिरेव च
ते तयोरात्मजा विप्र परस्परजयैषिणः
आदिर् दैत्यो दितेः पुत्रो हिरण्यकशिपुर्बली
विरोचन स्तस्य सुतो बभूव द्विजभक्तिमान्
स एव वाहिनीपालो दैत्यानामभवन्मुनेः
विजित्य वसुधां सर्वां स्वर्गं जेतुं मनो दधे
गजेगजे पञ्चशती पदातेः किं वर्ण्यते तस्य चमूर्वरिष्टा
पित्रा समं शौर्यपराक्रमाभ्यां बाणो बलेः पुत्रशतग्रजो ऽभूत्
ध्वजातपर्त्रैर्गगनाबुराशेस्तरङ्गविद्युत्स्मरणं प्रकुर्वन्
सुरश्च युद्धाय पुरात्तथैव विनिर्ययुर्वज्रकरादयश्च
कल्पान्तमेघानिर्धोषं डिण्डिंमध्वनिसंभ्रमम्
देवाश्च दैत्यसेनासु संग्रामे ऽत्यन्तदारुणे
इत्येवं सुमहान्घोषो वदतां सेनयोरभूत्
भाङ्कारैः स्यन्दनानां च बाणक्रेङ्गारनिःस्वनैः
टङ्गारैर्धनुषां चैव लोकः शब्दत्मयो ऽभवत्
अकालप्रलयं मेने निरीक्ष्य सकलं जगत्
चलद्विद्युन्निभा रात्रिश्छादिता जलदैरिव
नाराचैश्चूर्णयामासुर्वेवास्ते लघुविक्रमाः