वदेद्दीप्तिकरायान्ति सहस्रादित्यतेजसे
एवं न्यासविधिं कृत्वा ध्यायेन्नारायणं विभुम्
दधतं च करैर्भूमिश्रीभ्यां पार्श्वद्वयाञ्चितम्
हारकेयूरवलयाङ्गदं पीतांबरं स्मरेत्
प्रथमेन तु लक्षेण स्वात्मशुद्धिर्भवेद् ध्रुवम्
लक्षत्रयेण जप्तेन स्वर्लोकमधिगच्छति
तथा च निर्मलं ज्ञानं पञ्चलक्षजपाद्भवेत्
सप्तलक्षजपान्मन्त्री विष्णोः सारूप्यमाप्नुयात्
एवं जप्त्वा ततः प्राज्ञो दशांशं सरसीरुहैः
मण्डूकात्परतत्वान्तं पीठे संपूज्य यत्नतः
प्रह्वी सत्या तथेशाननुग्रहा नवमी मता
तात्मने वासुदेवाय सर्वात्मेति पदं वदेत्
षड्विंशदक्षरः पीठमन्त्रो ऽनेनासनं दिशेत्
आदौ चाङ्गानि संपूज्य मन्त्राणां केशरेषु च
प्रद्युम्नमनिरुद्धं च शक्तीः कोणेष्वथार्चयेत्
हेमपीततमालेन्द्रनीलाभाः पीतवाससः
सितकाञ्चनगोदुग्धदूर्वावर्णाश्च शक्तयः
पूजयेन्मुसलं खड्गं वनमालां यथाक्रमात्
कुङ्कुमाभं समभ्यर्च्येद्वहिरग्रे खगेश्वरम्
मुक्तामाणिक्यसंकाशौ पश्चिमे ध्वजमपर्चयेत्
दुर्गां श्यामां वायुकोणे सेनान्यं पीतमैश्वरे
एवमावरणैर्युक्तं योर्ऽचजयेद्विष्णुमव्ययम्
क्षेत्रधान्यसुवर्णानां प्पाप्तये धारणीं स्मरेत्
चिन्तयेद्भारतीं देवीं वीणापुस्तकधारिणीम्
क्षीराब्धिफेनपुञ्जाभे वसानां श्वेतवाससी
वेदवेदार्थतत्त्वज्ञो जायते सर्ववित्तमः
शश्त्रं संमन्त्र्य मन्त्रेण शब्रून्हत्वा निवर्तते
शतमष्टोत्तरं जण्त्वा वामहस्ताभिमन्त्रिताः
गारुडेन च संयोज्य पञ्चार्णेन जपेत्तदा
अशोकफलके तार्क्ष्यमालिख्याशोकसंहतौ