भक्तियुक्ताय शिष्याय देया वा निजसूनवे
यान्प्राप्य मानवास्तूर्णं प्राप्नुवन्ति निजेप्सितम्
ब्रह्मादयो ऽपि याञ्ज्ञात्वा समर्थाः स्युर्जगत्कृतौ
अष्टाक्षरो मनुश्चास्य साध्यो नारायणो मुनिः
ॐ बीजं यं च तथा शक्तिर्विनियोगो ऽखिलाप्तये
वीरोल्काय शिखा प्रोक्ता द्युल्काय कवचं मतम्
पुनः षडङ्गमन्त्रोत्थैः षड्वर्णैश्च समाचरेत्
सुदर्शनस्य मन्त्रेण कुर्याद्दिग्बन्धनं ततः
अस्त्रायफडिति प्रोक्तो मन्त्रो द्वादशवर्णवान्
मूलार्णान्स्वतनौ न्यस्येदाधारे हृदये मुखे
गले नाभौ हृदि कुचपार्श्वपृष्टेषु तत्पराः
दोःपादसंध्यङ्गुलिषु वेदावृत्त्या च विन्यसेत्
शिरोनेत्रा स्यहृत्कुक्षिसोरुजङ्घापदद्वये
न्यसेद्धृदंसोरुपदेष्वर्णान्वेदमितान्मनोः
शेषांश्च न्यासवर्यो ऽयं विभूतिपञ्जराभिधः
अथवा वै नमोन्तेन न्यसेदित्यपरे जगुः
अष्टार्णो ऽष्टप्रकृत्यात्मा गदितः पूर्वसूरिभिः
महांश्च प्रकृतिश्चैवेत्यष्टौ प्रकृतयो मताः
सर्वाङ्गे व्यापकं कुर्यादेकेन साधकोत्तमः
तत्तन्नाम समुञ्चार्य्य न्यसेत्तत्तत्स्थले बुधः
मूर्तीन्यंसेद्द्वादश वै द्वादशादित्यसंयुताः
अष्टार्णो ऽयं मनुश्चाष्टप्रकृत्यात्मा समीरितः
ललाटकुक्षिहृत्कण्ठदक्षपार्श्वांसकेषु च
ककुद्यपि न्यसेन्मन्त्री मूर्तीर्द्वादश वै क्रमात्
मित्रेण माधवं न्यस्य गोविन्दं वरुणेन च
न्यसेद्विवस्वता युक्तं त्रिविक्रममतः परम्
हृषीकेशं न्यसेत्पश्चात्पर्जन्येन समन्वितम्
द्वादसार्णं ततो मन्त्रं समस्ते शिरसि न्यसेत्
ध्रुवःकिरीटकेयूरहारान्ते मकरेतिच
पीतांबरान्ते श्रीवत्सां कितवक्षः स्थलेति च