मङ्गलाय नमस्तुभ्यं धनसंतानहेतवे
मेषवाहन रुद्रात्मन्देहि पुत्रान्धनं यशः
यथाशक्त्या प्रदाय स्वं गृह्णीयाद्ब्रणाशिषः
गुरवे दक्षिणां दत्त्वा भुञ्जीयात्तन्निवेदितम्
तिलैर्हेमं विधायाथ शतार्द्धं भोजयोद्द्विजान्
मण्डलस्थे घटे ऽभ्यर्च्येत्सुतसौभाग्यसिद्धये
ऋणनाशाय वित्तार्थं व्रतं कुर्यात्पुमानपि
अङ्गारकस्य गायत्रीं वक्ष्ये यजनसिद्धये
शक्तिहस्ताय वर्णान्ते धीमहीति समुञ्चरेत्
भौमस्यैषा तु गायत्री जप्तुः सर्वेष्टसिद्धिदा
फआन्तः कर्णेन्दुसंयुक्तो बुधो ङेंते हदन्तिमः
पङ्क्तिश्छैदो देवता तु बुधः सर्वेष्टदो नृणाम्
वन्दे बुधं सदा भक्त्या पीताम्बरविभूषणम्
ध्यात्वेवं प्रजपेसहस्रं विजितेन्द्रियः
अङ्गमातृदिशापालहेतिभिर्बुधमर्चयेत्
सहस्रं प्रजपेन्मन्त्रं नित्यं दशदिनावधि
बुधस्याराधनं प्रोक्तं गुरोराराधनं शृणु
नमोन्तो वसुवर्णो ऽयं मुनिर्ब्रह्मास्य संमतः
हृच्छक्तिर्दीर्घवह्नीन्दुयुगलेनाङ्गकल्पना
किरन्तं पीतपुष्पालङ्कारालेपांशुकार्चितम्
लक्षं जपो दशांशेन घृतेनान्नेन वा हुनेत्
एवं सिद्धे मनौ मन्त्री साधयेदिष्टमात्मनः
पिप्पलोत्थसमिद्भिश्च जुहुयात्तन्निवृत्तये
स विंशतिशतं शीघ्रं वासांसि लभते महीम्
वस्रं मे देहि शुक्राय ठद्वयान्तो ध्रुवादिकः
दैत्येज्यो देवता बीजं ध्रुवः शक्तिर्वसुप्रिया
शुक्लांबरालेपभूषं करेण ददतं धनम्
अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयाद् घृतैः
श्वेतपुष्पैः सुगन्धैश्च जुहुयाद् भृगुवासरे
मनवो ऽमो सदा गोप्या न देया यस्य कस्यचित्