विन्यस्यैवं निजे देहे ध्यायेत्प्राग्वद्धरात्मजम्
एकविंशतिकोष्ठाढ्ये त्रिकोणे ताम्रपत्रगे
अङ्गानि पूर्वमाराध्य मङ्गलादीन्प्रपूजयेत्
त्रिकोणेषु च सम्पूज्य बहिरष्टौ च मातृकाः
धूपदीपौ समर्प्याथ गोधूमान्नं निवेदयेत्
मङ्गलाय ततो मन्त्री इदं मन्त्रद्वयं पठेत्
सुतार्थिनी प्रपन्ना त्वां गृहाणार्ध्यं नमो ऽस्तु ते
महीसुत महाभाग गृहाणार्ध्यं नमो ऽस्तु ते
ताराद्यैः प्रणमेत्पश्चात्तावत्यश्च प्रदक्षिणाः
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम्
मार्जयेद्वामपादेन मन्त्राभ्यां च समाहिता
कृतरेखात्रयं वामपादेनैतत्प्रमार्ज्म्यहम्
मार्जयाम्यसिता रेखास्तिस्रो जन्मत्रयोद्भवाः
ध्यायन्ती तत्पदांभोजं पूजासांगत्वसिद्धये
सौभाग्यसुखदो नित्यं भव मे धरणीसुत
सुखसौभाग्यधनद ऋणदारिद्षनाशक
प्रसादं कुरु देवेश सर्वकल्याणभाजन
आप्नुवन्ति शिवं सर्वे सदा पूर्णमनोरथाः
प्राप्नुवन्ति सुखं तस्मै नमो धरणिसूनवे
पूजितः सुखसौभाग्यं तस्मै क्ष्मासूनवे नमः
मङ्गलाय नमस्तुभ्यं धनसंतानहेतवे
मेषवाहन रुद्रात्मन्देहि पुत्रान्धनं यशः
यथाशक्त्या प्रदाय स्वं गृह्णीयाद्ब्रणाशिषः
गुरवे दक्षिणां दत्त्वा भुञ्जीयात्तन्निवेदितम्
तिलैर्हेमं विधायाथ शतार्द्धं भोजयोद्द्विजान्
मण्डलस्थे घटे ऽभ्यर्च्येत्सुतसौभाग्यसिद्धये
ऋणनाशाय वित्तार्थं व्रतं कुर्यात्पुमानपि
अङ्गारकस्य गायत्रीं वक्ष्ये यजनसिद्धये
शक्तिहस्ताय वर्णान्ते धीमहीति समुञ्चरेत्
भौमस्यैषा तु गायत्री जप्तुः सर्वेष्टसिद्धिदा