धनं धान्यं सुतान्पौत्रान्सौभाग्यं लभते ऽचिरात्
तारो दीर्घेन्दुयुग्व्योम तदेवेन्दुयुतः पुनः
षडर्णो ऽयं महामन्त्रो मङ्गलस्याखिलेष्टदः
मन्त्रार्णैः षड्भिरङ्गानि क्रुर्वन्ध्यायेद्धरात्मजम्
करैर्बिभ्राणमीशानस्वेदजं भूंसुतं स्मरेत्
समिद्भिर्जुहुयादग्नौ शैवे पीठे यजेत्कुजम्
मङ्गलोभूमिपुत्रश्च ऋणहर्ता धनप्रदः
लोहितो लोहिताक्षश्च सामगानां कृपाकरः
अङ्गारको महीसूनुः सर्वरोगापहारकः
इत्येक र्विशतिः प्रोक्ता मूर्तयो भूसुतस्य वै
इन्द्राद्यानपि वज्रादीनेवं सिद्धो भवेन्मनुः
मार्गशीर्षे ऽथ वैशाखे व्रतारंभः प्रशस्यते
विनिर्वर्त्य रदान्धावेदपामार्गेण वाग्यता
नैवेद्यादींश्च संभारान्रक्तान्सर्वान्प्रकल्पयेत्
रक्तगोगोमयालिप्तभूमौ रक्तासने विशेत्
मङ्गलादीनि नामानि स्वकीयाङ्गेषु विन्यसेत्
धरात्मजं नसोरक्ष्णोः कुजं भौमं ललाटके
अङ्गारकं शिखायां च सर्वाङ्गे च महीसुतम्
मूर्द्धादि वृष्टिकर्तारमापादान्तं न्यसेत्सुधीः
न्यसेदन्ते ततो दिक्षु सर्वकार्यार्थसिद्धिदम्
विन्यस्यैवं निजे देहे ध्यायेत्प्राग्वद्धरात्मजम्
एकविंशतिकोष्ठाढ्ये त्रिकोणे ताम्रपत्रगे
अङ्गानि पूर्वमाराध्य मङ्गलादीन्प्रपूजयेत्
त्रिकोणेषु च सम्पूज्य बहिरष्टौ च मातृकाः
धूपदीपौ समर्प्याथ गोधूमान्नं निवेदयेत्
मङ्गलाय ततो मन्त्री इदं मन्त्रद्वयं पठेत्
सुतार्थिनी प्रपन्ना त्वां गृहाणार्ध्यं नमो ऽस्तु ते
महीसुत महाभाग गृहाणार्ध्यं नमो ऽस्तु ते
ताराद्यैः प्रणमेत्पश्चात्तावत्यश्च प्रदक्षिणाः
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम्