सुधाबीजं चन्दनेन दक्षे करतले लिखेत्
अष्टोत्तरशतावृत्त्या पुनः संपूज्य भास्करम्
आमूर्ध्नि पात्रमुद्धृत्यांबरेण वरणे रवेः
साधकेन स्वकैक्येन मूलमन्त्रं धिया जपन्
दत्त्वा पुष्पाञ्जलिं भूयो जपेदष्टोत्तरं शतम्
तेन तुष्टो दिनेशो ऽस्मै दद्याद्वित्तं यशः सुखम्
अर्ध्यदानमिदं प्रोक्तमायुरारोग्यवर्द्धनम्
तेजोवीर्ययशःकीर्तिविद्याविभवभोगदम्
एवं मनुं जपन्विप्रो दुःखं नैवाप्नुयात्क्वचित्
वियद्वह्निमरुत्साद्यान्तार्वीसेंदुसमन्वितम्
बिंबबीजेन पुटितं सर्वकामफलप्रदम्
भृगुर्जलेन्दुमन्वाढ्यः सोमाय हृदयान्तिमः
छन्दः पङ्क्तिस्तु सोमो ऽस्य देवता परिकीर्तिता
षड्दीर्घेण स्वबीजेन षडङ्गानि समाचरेत्
विभ्राणमिष्टं कुमुदं ध्यायेन्मुक्तास्रजं विधुम्
जुहुयात्तद्दशांशेन पीठे सोमान्तपूजिते
केसरेष्वङ्गपूजा स्यात्पत्रेष्वेताश्च शक्तयः
रात्रिरार्द्रा ततो ज्येत्स्ना कला हारसमप्रभा
सर्वाःस्तनभराक्रान्ता रचिताञ्जलयः शुभाः
समभ्यर्च्याः सरोजाक्ष्यः पूर्णेन्दुसदृशाननाः
आदित्यभूसुतबुधमन्ददेवेज्यराहवः
रक्तारुणश्वेतनीलपीतधूम्रसितासिताः
सोकपालांस्तदस्त्राणि तद्वाह्ये पूजयेत्सुधीः
पौर्णमास्यां जिताहारो दद्यादर्ध्यं विधूदये
पश्चिमे मण्डले स्थित्वा पूजाद्रव्यं च मध्यमे
समभ्यर्च्यं विधानेन पीठपूजनपूर्वकम्
सुरभीपयसापूर्य्य तं स्पृशन्प्रजपेन्मनुम्
दद्यान्निशाकरायार्ध्यं सर्वाभीष्टार्थसिद्धये
वषान्तरेण सवष्टं प्राप्नोति भुविमानवः
चन्द्रमुखि द्विठान्तो ऽयं विद्यामन्त्र उदाहृतः