उषां प्रज्ञां प्रभां संध्यां ततो ब्रह्मादिकान्यजेत्
दिक्ष्वर्यमादिकानिष्ट्वा भूमिजं च शनैश्चरम्
इन्द्राद्यानपि वज्राद्यान्पूजयेत्पूर्ववत्सुधीः
समाहितो दिनेशाय दद्यादर्ध्यं दिने दिने
विधाय मण्डलं भानोः पीठं पूर्ववदर्चयेत्
पात्रं ताम्रमयं प्रस्थतोयग्राहि सुशोभनम्
विलोममातृकामूलमुञ्चरन्पूरयेज्जलैः
कुङ्कुमं रोजनां राजीं चन्दनं रक्तचन्दनम्
तिलवेणुयवांश्चैव निक्षिपेत्सलिले शुभे
गन्धपुष्पधूपदीपनैवेद्याद्यै र्विधानतः
सुधाबीजं चन्दनेन दक्षे करतले लिखेत्
अष्टोत्तरशतावृत्त्या पुनः संपूज्य भास्करम्
आमूर्ध्नि पात्रमुद्धृत्यांबरेण वरणे रवेः
साधकेन स्वकैक्येन मूलमन्त्रं धिया जपन्
दत्त्वा पुष्पाञ्जलिं भूयो जपेदष्टोत्तरं शतम्
तेन तुष्टो दिनेशो ऽस्मै दद्याद्वित्तं यशः सुखम्
अर्ध्यदानमिदं प्रोक्तमायुरारोग्यवर्द्धनम्
तेजोवीर्ययशःकीर्तिविद्याविभवभोगदम्
एवं मनुं जपन्विप्रो दुःखं नैवाप्नुयात्क्वचित्
वियद्वह्निमरुत्साद्यान्तार्वीसेंदुसमन्वितम्
बिंबबीजेन पुटितं सर्वकामफलप्रदम्
भृगुर्जलेन्दुमन्वाढ्यः सोमाय हृदयान्तिमः
छन्दः पङ्क्तिस्तु सोमो ऽस्य देवता परिकीर्तिता
षड्दीर्घेण स्वबीजेन षडङ्गानि समाचरेत्
विभ्राणमिष्टं कुमुदं ध्यायेन्मुक्तास्रजं विधुम्
जुहुयात्तद्दशांशेन पीठे सोमान्तपूजिते
केसरेष्वङ्गपूजा स्यात्पत्रेष्वेताश्च शक्तयः
रात्रिरार्द्रा ततो ज्येत्स्ना कला हारसमप्रभा
सर्वाःस्तनभराक्रान्ता रचिताञ्जलयः शुभाः
समभ्यर्च्याः सरोजाक्ष्यः पूर्णेन्दुसदृशाननाः