न्यसेत्कण्ठादिनाभ्यन्तं ध्यायन्प्रद्योतनं हृदि
नाभ्यादिपादपर्यन्तं न्यसेद्वह्निमनुस्मरन्
आदिठान्तार्णपूर्वं ङेंनमोन्तं सोममण्डलम्
डकारादिक्षकारान्तवर्णाद्यं पह्निमण्डलम्
अग्रीषोमात्मको न्यासः कथितः सर्वसिद्धिदः
नमोन्ते व्यापकं मन्त्री हंस्नयासो ऽयमीरितः
उक्तादित्यमुखानेतान्विन्यसेञ्च नवग्रहान्
भ्रूमध्ये च तथा भाले ब्रह्मरङ्घ्रे न्यसेत्क्रमात्
पुनर्न्यासत्रयं कुर्यान्मूलेन व्यापकं चरेत्
दानाभयाब्जयुगलं धारयन्तं करै रविम्
ध्यात्वैवं प्रजपेन्मन्त्री वसुलक्षं दशांशतः
प्रथमं पीठयजने धर्मादीनां स्थले यजेत्
परमादिमुखं मध्ये खबिंबान्तं प्रपूजयेत्
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा
ह्रस्वत्रयोक्तिजाः क्लीबही ना वह्नीन्दुसंयुताः
ब्रह्मविष्णुशिवात्मा ते सृष्टिः शेषान्विताप्यसौ
ताराद्यो ऽयं पीठमन्त्रस्त्वनेनासनमादिशेत्
नवार्णाय च मनवे मूर्तिं संकल्पयेत्सुधीः
ततः षडङ्गामाराध्य द्विक्ष्वष्टाङ्गं प्रपूजयेत्
सूर्यं दिशासु सद्यादिपञ्च ह्रस्वादिकानिमान्
उषां प्रज्ञां प्रभां संध्यां ततो ब्रह्मादिकान्यजेत्
दिक्ष्वर्यमादिकानिष्ट्वा भूमिजं च शनैश्चरम्
इन्द्राद्यानपि वज्राद्यान्पूजयेत्पूर्ववत्सुधीः
समाहितो दिनेशाय दद्यादर्ध्यं दिने दिने
विधाय मण्डलं भानोः पीठं पूर्ववदर्चयेत्
पात्रं ताम्रमयं प्रस्थतोयग्राहि सुशोभनम्
विलोममातृकामूलमुञ्चरन्पूरयेज्जलैः
कुङ्कुमं रोजनां राजीं चन्दनं रक्तचन्दनम्
तिलवेणुयवांश्चैव निक्षिपेत्सलिले शुभे
गन्धपुष्पधूपदीपनैवेद्याद्यै र्विधानतः