दारिद्षं तु पराभूय जायते धनदोपमः
अष्टोत्तरशतं नित्यं हुत्वा प्राग्वत्फलं लभेत्
अपूपैर्वत्सरे स स्यात्समृद्धेः परमं पदम्
हविषा पा यसान्नेन नैवेद्यं परिकल्पयेत्
निवेदितेन जुहुयात्सहरस्रं विधिवद्वसौ
अथान्यत्साधनं वक्ष्ये लोकानां हितकाम्यया
नानाफलैस्ततोमन्त्री हरिद्रामथ सैन्धवम्
विशोध्य चूर्णं प्रसृतौ गवां मूत्रे विनिक्षिपेत्
स्नातामृतुदिने शुद्धां शुक्लांबरधरां शुभाम्
सर्वलक्षणसंपन्नं वन्ध्यापि लभते सुतम्
गोचर्ममात्रां धरणीमुपलिप्य प्रयत्नतः
शुद्धोदकेन संपूर्य तस्योपरि निधापयेत्
षडष्टाक्षरमन्त्राभ्यां दीपमारोपयेच्छुभम्
स्नातां कुमारीमथवा कुमारं पूजयेत्सुधीः
प्रदीपे स्थापिते पश्येद्द्विजरूपं गणेश्वरम्
सकलं प्रवदेदेवं कुमारी वा कुमारकः
अन्ये ऽपि मन्त्रा देवर्षे सन्ति तन्त्रे गणेशितुः
अष्टविंशरसार्णाभ्यां तन्न पश्येदपि क्वचित्
शठेभ्यः परशिष्येभ्यो वञ्चकेभ्यो ऽपि मा वद
प्राप्येह सकलान्भोगनिन्ते मुक्तिपदं व्रजेत्
मन्त्राणां यत्समाराध्य सर्वेष्टं प्रामुयाहृवि
ससर्गा बामकर्णोढ्यो भृगुर्वढ्यासनो मरुत्
देवभागो मुनिश्छन्दो गायत्री देवता रविः
सत्याय हृदयं पश्चाद्ब्रह्मणे शिर ईरितम्
नेत्रं स्यादग्रये पश्चात्शर्वायास्रमुदाहृतम्
पुनः षडर्णैर्ह्री लक्ष्म्याः कृत्वान्तः स्थैः षडङ्गकम्
आदित्यं च रविं पश्चाद्भानुं भास्करमेव च
सद्यादिपञ्च ह्रस्वाद्यान् न्यसेन्ङें हृदयोंऽतिमान्
मूर्द्धास्यकण्ठहृत्कुक्षिनाभिलिङ्गगुदेषु च
मूर्द्धादिकण्ठपर्यन्तं न्यसेञ्चान्द्रिमनुस्प्ररन्