वक्रतुण्डाभिधो बीजं वं शक्तिः कवचं पुनः
कृत्वा षडङ्गमन्त्रार्णान्भ्रूमध्ये च गले हृदि
उद्यदर्कद्युतिं हस्तैः पाशाङ्कुशवराभयान्
ध्यात्वैवं प्रजपेत्तर्कलक्षं द्रव्यैर्दशांशतः
मूर्तिं मूर्तेन संकल्प्य तस्यामावाह्य पूजयेत्
यजेद्विद्यां विधात्रीं च भोगदां विप्रघातिनीम्
दलाग्रेषु वक्रतुण्ड एकदंष्ट्रमहोदरौ
धूम्रवर्णस्ततो बाह्ये लोकेशान्हेतिसंयुतान्
साधंयेदखिलान्कामान्वक्रतुण्ड प्रंसादतः
ब्रह्मचारी हविष्याशी सत्यवाक् च जितेन्द्रियः
दारिद्षं तु पराभूय जायते धनदोपमः
अष्टोत्तरशतं नित्यं हुत्वा प्राग्वत्फलं लभेत्
अपूपैर्वत्सरे स स्यात्समृद्धेः परमं पदम्
हविषा पा यसान्नेन नैवेद्यं परिकल्पयेत्
निवेदितेन जुहुयात्सहरस्रं विधिवद्वसौ
अथान्यत्साधनं वक्ष्ये लोकानां हितकाम्यया
नानाफलैस्ततोमन्त्री हरिद्रामथ सैन्धवम्
विशोध्य चूर्णं प्रसृतौ गवां मूत्रे विनिक्षिपेत्
स्नातामृतुदिने शुद्धां शुक्लांबरधरां शुभाम्
सर्वलक्षणसंपन्नं वन्ध्यापि लभते सुतम्
गोचर्ममात्रां धरणीमुपलिप्य प्रयत्नतः
शुद्धोदकेन संपूर्य तस्योपरि निधापयेत्
षडष्टाक्षरमन्त्राभ्यां दीपमारोपयेच्छुभम्
स्नातां कुमारीमथवा कुमारं पूजयेत्सुधीः
प्रदीपे स्थापिते पश्येद्द्विजरूपं गणेश्वरम्
सकलं प्रवदेदेवं कुमारी वा कुमारकः
अन्ये ऽपि मन्त्रा देवर्षे सन्ति तन्त्रे गणेशितुः
अष्टविंशरसार्णाभ्यां तन्न पश्येदपि क्वचित्
शठेभ्यः परशिष्येभ्यो वञ्चकेभ्यो ऽपि मा वद
प्राप्येह सकलान्भोगनिन्ते मुक्तिपदं व्रजेत्