एवमाराध्य विघ्नेशं साधयेत्स्वमनोरथान्
तर्पयेदंबुभिः शुद्धैर्गजास्यं दिनशः सुधीः
कुमुदैर्मन्त्रिणो ऽश्वत्थसमिद्भिर्वाडवाञ्शुभैः
वटोद्भवैः समिद्भिश्च वशयेदन्तिमान्बुधः
गोदुग्धेन गवां लाभो दध्ना सर्वसमृद्धिमान्
वासांसि लभते हुत्वा कुसुंभकुसुमैः शुभैः
मूलेनादौ चतुर्वारं प्रत्येकं च प्रतर्पयेत्
मूलमन्त्रैश्चतुर्वारपूर्वकं संप्रतर्प्य च
देवेन सहितां शक्तिं शक्त्या च सहितं तु तम्
स्वनामाद्यर्णबीजानि तानि सन्तर्पयेत्क्रमात्
एवं संतप्य तत्पश्चात्पूर्ववत्सोपचारकैः
भाद्रकृष्णचतुर्थ्यादिप्रतिमासमतन्द्रितः
तावन्नोपविशेद्भूमौ जितवाक्क्रियामानसः
पूर्वोक्तविधिना सम्यङ्नानापुष्पोपहारकैः
तदग्रे प्रजपेन्मन्त्रमष्टोत्तरसहस्रकम्
अर्ध्यं दद्यात्तु मूलान्ते ङेंते गणपतिं ततः
स्तुत्वा नत्वा विसृज्याथ यजेच्चन्द्रमसं पुनः
निवेदितेषु विप्राय दद्यादर्धांश्च मोदकान्
एवं व्रतं यः कुरुते सम्यक्संवत्सरावधि
सूर्योदयादशक्तश्चेदस्तमारभ्य मन्त्रवित्
एवं कृते ऽपि पूर्वोक्तं फलमाप्नोति निश्चितम्
गजभग्रेन निंबेन सितार्केंणाथवा पुनः
अभ्यर्च्य विधिवन्मन्त्री राहुग्रस्ते निशाकरे
द्यूते विवादे समरे व्यवहारे जयं लभेत्
स्मृतिर्मांसेंदुमन्वाग्रा कर्णोच्छिष्टगणे वदेत्
बलिमन्त्रो ऽयमाख्यातो न चेद्वर्णो ऽखिलेष्टदः
हस्तीति च पिशाचीति लिखेञ्चैवाग्रिंसुंदरी
पदैः सर्वण मन्त्रेण पञ्चाङ्गानि प्रकल्पयेत्
अथाभिधास्ये विधिवद्वक्रतुण्डमनुत्तमम्
सदीर्घो दारको वायुर्वर्मान्तो ऽयं रसार्णकः