तन्नो दन्तिः प्रचोवर्णा दयादिति वदेत्पुनः
एवं न्यासविधिं कृत्वा ध्यायेदेवं हृदंबुजे
सशक्तिकं भूषिताङ्गं दन्त चक्राद्युदायुधम्
चतुर्लक्षं जपेन्मन्त्रं अष्टद्रव्यैर्दशांशतः
इक्षवः सक्तवो मोचाफलानि चिपिटास्तिलाः
पीठमाधारशक्त्यादिपरतत्वान्तमर्चयेत्
भूपुरं तद्बहिः कृत्वा गमेशं तत्र पूजयेत्
अग्रा तेजोवती सत्या नवमी विध्ननाशिनी
पीठमन्त्रो ऽयमेतेन दद्यादासनमुत्तमम्
विकोणबाह्ये पूर्वादिचतुर्दिक्षअवर्चयेत्क्रमात्
रतिं रतिपतिं पाश्चान्महीपूर्व च पोत्रिणम्
रमा पद्मद्वयकरा शङ्खचक्रधरो हरिः
रतिः पद्मकरा पुष्पबाणचापधरः स्मरः
देवाग्रे पूजयेल्लक्ष्मीसहितं तु विनायकम्
आमोदं सिद्धिसंयुक्तमग्रतः परिपीजयेत्
ईशकोणे यजेत्कीर्तिसंयुतं सुमुखं तथा
यजेन्नैरृत्यकोणे तु विघ्नं मदद्रवायुतम्
पाशाङ्कुशाभयकरांस्तरुणार्कसमप्रभान्
षट्कोणोभयपार्श्वे तु शङ्खपद्मनिभौ क्रमात्
केशरेषु षडङ्गानि पत्रेष्वष्टौ तु मातरः
एवमाराध्य विघ्नेशं साधयेत्स्वमनोरथान्
तर्पयेदंबुभिः शुद्धैर्गजास्यं दिनशः सुधीः
कुमुदैर्मन्त्रिणो ऽश्वत्थसमिद्भिर्वाडवाञ्शुभैः
वटोद्भवैः समिद्भिश्च वशयेदन्तिमान्बुधः
गोदुग्धेन गवां लाभो दध्ना सर्वसमृद्धिमान्
वासांसि लभते हुत्वा कुसुंभकुसुमैः शुभैः
मूलेनादौ चतुर्वारं प्रत्येकं च प्रतर्पयेत्
मूलमन्त्रैश्चतुर्वारपूर्वकं संप्रतर्प्य च
देवेन सहितां शक्तिं शक्त्या च सहितं तु तम्
स्वनामाद्यर्णबीजानि तानि सन्तर्पयेत्क्रमात्