दौर्बोधी च क्रमादासां लक्षणानि शृणुषअव मे
विलोक्य पूजां देवस्य मूर्तिं वा सूर्य्यमण्डलम्
रोगे निवृत्ते स्नात्वाथ नत्वा संपूञ्चेद्गुरुम्
पूजाविच्छेददोषो मे मास्त्विति प्रार्थयेच्च तम्
तेभ्यश्चाशिषमादाय देवं प्राग्वत्ततोर्ऽचयेत्
सूतकं द्विविधं प्रोक्तं जाताख्यं मृतसंज्ञकम्
मनसैव यजेद्देवं मनसैव जपेन्मनुम्
तेभ्यश्चाशिषमादाय ततो नित्यक्रमं चरेत्
दुष्टेभ्यस्त्रासमापन्नो यथालब्धोपचारङ्कैः
पूजासाधनवस्तूनाम सामर्थ्ये तु सर्वतः
साधनाभाविनी ह्येषा दौर्बोधीं शृणु नारद
यथाज्ञानकृता सा तु दौर्बोधीति प्रकीर्तिता
देवपूजाविहीनो यः स गच्छेन्नरकं ध्रुवम्
देवे निवेदितं पश्चाद्भुञ्जीत स्वगणैः स्वयम्
पुराणमितिहासं च शृणुयात्स्वजनैः सह
न सांगशयिकं तस्य दुर्मतेर्जायते फलम्
यान्समाराध्य विप्रेन्द्र साधको भुक्तिमुक्तिमान्
स्मृतिर्मांसेंदुमन्वाढ्या सा पुनश्चन्द्रशेखरा
सर्वान्ते जनमुञ्चार्य ततो मे वशमानय
गणको ऽस्य मुनिश्छन्दो गायत्री वियुदादिका
श्रीमन्महागणपतिप्रीतये विनियोगकः
गुह्ये बीजं पदोः शक्तिं न्यसेत्साधकसत्तमः
षडङ्गानि न्यसेदस्य जातियुक्तानि मन्त्रवित्
गामाद्यं चैव भूर्लोकं नाभ्यन्तं पादयोर्न्यसेत्
स्वर्लोकं चैव गूमाद्यं कण्ठदिमस्तकावधि
मूलमन्त्रं समुञ्चार्य मातृकावर्णमीरयेत्
क्षान्तं विन्यस्य मूलेन व्यापकं रचयेत्सुधीः
पञ्चत्रिबाणवह्नीन्दुचन्द्राक्षिनिगमैः क्रमात्
भालदेशे मुखे कण्ठे हृदि नाभ्यूरुजानुषु
वदेत्तत्पुरुषायान्ते विद्महेति पदं ततः