अपराधसहस्राणि क्रियन्ते ऽहर्न्निशं मया
आवाहनं न जानामि न जानामि विसर्जनम्
संप्रार्थ्यैवं ततो मन्त्री मूलान्ते श्लोकमुञ्चरेत्
यन्न ब्रह्मादयो देवा जानन्ति च सदाशिवः
निधाय देवं सांगं च स्वीयदृत्सरसीरुहे
शङ्खचक्रशिलालिङ्गविघ्नसूर्यद्वयं तथा
अकालमृत्युहरणं सर्वव्याधिविनाशन्
सर्वपापक्षयकरं विष्णुपादोदकं शुभम्
अग्राह्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम्
पूजा पञ्चविधा तत्र कथिता नारदाखिलैः
दौर्बोधी च क्रमादासां लक्षणानि शृणुषअव मे
विलोक्य पूजां देवस्य मूर्तिं वा सूर्य्यमण्डलम्
रोगे निवृत्ते स्नात्वाथ नत्वा संपूञ्चेद्गुरुम्
पूजाविच्छेददोषो मे मास्त्विति प्रार्थयेच्च तम्
तेभ्यश्चाशिषमादाय देवं प्राग्वत्ततोर्ऽचयेत्
सूतकं द्विविधं प्रोक्तं जाताख्यं मृतसंज्ञकम्
मनसैव यजेद्देवं मनसैव जपेन्मनुम्
तेभ्यश्चाशिषमादाय ततो नित्यक्रमं चरेत्
दुष्टेभ्यस्त्रासमापन्नो यथालब्धोपचारङ्कैः
पूजासाधनवस्तूनाम सामर्थ्ये तु सर्वतः
साधनाभाविनी ह्येषा दौर्बोधीं शृणु नारद
यथाज्ञानकृता सा तु दौर्बोधीति प्रकीर्तिता
देवपूजाविहीनो यः स गच्छेन्नरकं ध्रुवम्
देवे निवेदितं पश्चाद्भुञ्जीत स्वगणैः स्वयम्
पुराणमितिहासं च शृणुयात्स्वजनैः सह
न सांगशयिकं तस्य दुर्मतेर्जायते फलम्
यान्समाराध्य विप्रेन्द्र साधको भुक्तिमुक्तिमान्
स्मृतिर्मांसेंदुमन्वाढ्या सा पुनश्चन्द्रशेखरा
सर्वान्ते जनमुञ्चार्य ततो मे वशमानय
गणको ऽस्य मुनिश्छन्दो गायत्री वियुदादिका