शुश्रूषां कुरुते यस्तु गुरुणां सादरं नरः
तेन शापेन दग्धो ऽहमन्तश्चैव क्षधाग्निना
एवं वदति विप्रेन्द्र वटस्थे ऽस्मिन्निशाचरे
एतस्मिन्नन्तरे प्रात्पः कश्चिद्विप्रो ऽतिधार्मिकः
वहन्गङ्गाजलं स्कन्धे स्तुवन् विश्वेश्वरं प्रभुम्
तमागतं मुनिं दृष्ट्वा पिशाचीराक्षसौ च तौ
अशक्तास्तं धर्षयितुमिदमूचुश्च राक्षसाः
नामकीर्तनमाहात्म्याद्राक्षसा दूरगावयम्
नामप्रावरणं विप्र रक्षति त्वां महाभययात्
परां शान्तिं समापन्ना महिम्ना ह्यच्युतस्य वै
गङ्गाजलाभिषेकेण पाह्यस्मात्पातकोच्चयात्
स तारयेनगत्सर्वमिति शंसन्ति सूरयः
केनोपायेन लभ्येत मुक्तिः सर्वत्र दुर्लभा
तयैवाकृतपुण्यास्तु तारयन्ति कथं परान्
यथा हि सर्वलोकानामानन्दाय कलानिधिः
तानि सर्वाणि गङ्गायाः कणस्यापि समानिन
गङ्गाजलं पुनात्येव कुलानामेकविंशतिम्
गङ्गाजलप्रदानेन पाह्मस्मान्पापकर्मिणः
निशम्य विस्मया विष्टो बभूव द्विजसतमः
किमु ज्ञानप्रभावाणां महतां पुण्यशालिनाम्
सर्वपूतहितो भक्तः प्राप्रोतीति परं पदम्
तुलसीदलसंमिश्रं तेषु रक्षःस्वसेचयत्
विमृज्य राक्षसं भावमभवन्देवतोपमाः
कोटिसूर्यप्रतीकाशा बभूवुर्विवुधर्षभाः
स्तुवन्तो ब्राह्मणं सम्यक्ते जग्मुर्ह रिमान्दिरम्
जगाम महतीं चिन्तां दृष्ट्वा तान्मुक्तिगानधान्
धर्ममूलं महावाक्यं बभाषे ऽगाधया गिरा
राजस्तवापि भागान्ते महच्छ्रेयो भविष्यति
प्रयान्ति नात्र संदेहस्तद्विष्णोः परमं पदम्
प्रयान्ति परमं स्थानं गुरुपूजापरायणाः