ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः
विघ्नभूतास्तथा चान्ये दिग्विदिक्षु समाश्रिताःग
इत्यष्टदिक्षु दत्वा च पुनर्भूतबलिं चरेत्
देवतायाः करे दद्यात्पुनश्चाचमनीयकम्
नैवेद्यं च ततो दद्यात्तत्तदुच्छिष्टभोजिने
शक्तेरुच्छिष्टचाण्डाली प्रोक्ता उच्छिष्टभोजिनः
जप्त्वा मन्त्रं यथाशक्ति देवतायै निवेदयेत्
सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वयि स्थिता
मनसा वचसा चेति प्रणामो ऽष्टाङ्ग ईरितः
पञ्चाङ्गकः प्रणामः स्यात्पूजायां प्रवरावुभौ
विष्मुसोमार्कविघ्नानां वेदार्धेन्द्वद्रिवह्नयः
इतः पूर्णं प्राणबुद्धिदेहधर्माधिकारतः
वाचा हस्ताभ्यां च पद्भ्या मुदरेण ततः परम्
तत्सर्वं च ततो ब्रह्मर्पणं भवतु ठद्वयम्
तारं तत्सदतो ब्रह्मर्पणमस्तु मनुर्मतः
अज्ञानाद्वा प्रमादाद्वा वैकल्यात्साधनस्य च
द्रव्यहीनं क्रियाहीनं मन्त्रहीनं मयान्यथा
यन्मया क्रियते कर्म जाग्रत्स्वप्रसुषुप्तिषु
भूमौ स्खलितपादानां भूमिरेवावलंबनम्
अन्यथा शरणं नास्ति त्वमेव शरणं मम
अपराधसहस्राणि क्रियन्ते ऽहर्न्निशं मया
आवाहनं न जानामि न जानामि विसर्जनम्
संप्रार्थ्यैवं ततो मन्त्री मूलान्ते श्लोकमुञ्चरेत्
यन्न ब्रह्मादयो देवा जानन्ति च सदाशिवः
निधाय देवं सांगं च स्वीयदृत्सरसीरुहे
शङ्खचक्रशिलालिङ्गविघ्नसूर्यद्वयं तथा
अकालमृत्युहरणं सर्वव्याधिविनाशन्
सर्वपापक्षयकरं विष्णुपादोदकं शुभम्
अग्राह्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम्
पूजा पञ्चविधा तत्र कथिता नारदाखिलैः