दद्यात्पुष्पाञ्जलिं पश्चात्कुर्यादावरणार्चनम्
सैव प्राची तु विज्ञेया ततो ऽन्या विदिशो दश
नेत्रमग्रे दिक्षु चास्त्रं अङ्गमन्त्रैर्यथाक्रमम्
वराभयकरा ध्येयाः स्वस्वदिक्ष्वं गशक्तयः
सालङ्कारास्ततः पश्चात्सांगाः सपरिचारिकाः
संपूजितास्तर्पिताश्च वरदाः संत्विदं पठेत्
अभीष्टसिद्धिं मे देहि शरणागतवत्सल
इत्युञ्चार्य क्षिपेत्पुष्पाञ्जलिं देवस्य मस्तके
सायुधांस्तत इन्द्राद्यान्स्वस्वदिक्षु प्रपूजयेत्
ईशानो ऽथ विधिश्चैवमधस्तात्पन्न गाधिपः
वाजी वृषो हंसकूर्मौं वाहनानि विदुर्बुधाः
त्रिशूलं पद्मचक्रे च क्रमादिन्द्रादिहेतयः
शङ्खतोयं परिक्षिप्योद्वाहुर्नृत्यन् पतेत्क्षितौ
दक्षिणे स्थण्डिलं कृत्वा तत्र संस्कारमाचरेत्
कुशैस्तद्वर्मणाभ्युक्ष्य पूज्य तत्र न्यसेद्वसुम्
महाव्याहृतिभिर्यस्तु समस्ताभिश्चतुष्टयम्
सघृतैः साधकश्रेष्ठः पञ्चविंशतिसंख्यया
देवं संयोजयेन्मूर्तौं ततो वह्निं विसर्जयेत्
कर्मान्तरे ऽपि संप्राप्ते सान्निध्यं कुरु सादरम्
अवशिष्टेन हविषा गन्धपुष्पाक्षतान्वितम्
ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः
विघ्नभूतास्तथा चान्ये दिग्विदिक्षु समाश्रिताःग
इत्यष्टदिक्षु दत्वा च पुनर्भूतबलिं चरेत्
देवतायाः करे दद्यात्पुनश्चाचमनीयकम्
नैवेद्यं च ततो दद्यात्तत्तदुच्छिष्टभोजिने
शक्तेरुच्छिष्टचाण्डाली प्रोक्ता उच्छिष्टभोजिनः
जप्त्वा मन्त्रं यथाशक्ति देवतायै निवेदयेत्
सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वयि स्थिता
मनसा वचसा चेति प्रणामो ऽष्टाङ्ग ईरितः
पञ्चाङ्गकः प्रणामः स्यात्पूजायां प्रवरावुभौ